Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका अथवा ' तथा तथा निजस्वभावादि 'ति पूर्वोक्तरूपेणैवैतेषां स्वयं भावाद् वर्तनादित्यर्थः । तथा चानुत्पत्तिकत्वे सति सद्भावादित्यर्थः । ये ये चानुत्पत्तिमत्त्वे सति सन्तः ते तेऽनादिनिधनाः । दृष्टान्तास्तु पूर्वोक्ता एवानुसन्धेयाः । पक्षेषु चात्र ‘नवर 'मित्यादि बाधितलक्षणबाधनिराकरणाय । कार्यकारणभावेन तथा तथा वृत्तावपि न ते अन्यस्वरूपा यतः , ततो नैषां तथा तथानिजस्वभाववर्त्तनं बाधाकरम् । अत्र हि पर्यायाणां विधेयतानुज्ञानात् न ते कृताः परमेश्वरेणेत्यनुसन्धेयम् । तस्य विवक्षितस्य परैः, पुरस्ताद् निराकरिध्यमाणत्वाद्, जीवादीनां च यथायथं पर्यायविधायकत्वे दोषाभावात । एवं तु कथञ्चित् कर्तृत्ववादाभ्युपगमोऽपि न दोषाय । अत एवोच्यतेऽभियुक्ततमैः___'कर्तायमिति तद्वाक्ये यतः केषाश्चिदादरः । अतः तदानुगुण्येन तस्य कर्तृत्वदेशना ॥१॥ परमैश्वर्ययुक्तत्वान् मत आत्मैव वेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥२॥ शास्त्रकारा महास्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥३॥ अभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः ॥४॥ इत्यादि । अत्र 'तद्वाक्य' इति विश्वस्य-भुवनस्य गोप्तेत्यादिवाक्ये औपनिषदीये, 'केषाश्चिद्' इत्यभावितयथार्थपरमार्थानां मार्गामिमुखादीनाम्, 'तस्य' इतीश्वरस्य, स च कर्ते 'ति जीवस्य चेतनत्वेन समस्तवादिभिरपि कर्तृत्वेनाविगानेन प्रतिपत्तेः । यदाश्रित्य प्रतिपाद्यते-'जीवं विना चाप्यकर्तृणी 'ति ।
यद्वा-जीवानामेवामिलाषात् प्रयत्नवत्त्वाच्च कर्तृत्वम् । तथा च पुद्गलानां सत्यपि कर्तृत्वे तदभावान्न विवक्षिता कर्तृता । पाठान्तरे
For Private And Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256