________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
लोकविशिका विप्लवकर नूनस्वरूपोत्पादकं वा, यतः स्युरेते परस्वरूपाः । कारणविरह-कारणविभागाद्याश्चात्रानुसन्धेया हेतुतया । तथा च परस्वरूपाऽभवनज्ञापनेन तथा तथा निजस्वभावतो वर्तनं प्रमाणितम् , तत्प्रमाणनाञ्च एते अनादिनिधना इति सुसिद्धं कृतम् । तथा च ये ये निजस्वमाववृत्तिमन्तस्ते ते अनादिनिधनाः, यथा पराभिमता आकाशाद्या ईश्वराद्या वा, तथा तथा निजस्वभाववृत्तिमन्तश्चेमे, ततस्तथा । व्यतिरेके घटाद्याः, कृत्रिमा हि ते तथा तथा भावेनेति नादिनिधना न यतः, सिद्धं च धर्मादीनां जीवादीनां च तथा तथा निजस्वभावेन वर्तनमिति । पर्यायविलोपापत्तिश्च नवरमित्यनेन पराकृता ।
तथा च नैकान्तनित्यताभ्युपगमेन जैने रजनीभोजनं भजनीयमित्यादिवत् नागमविरुद्धतापि साध्यस्य । 'गम्ययपः कर्माधारे' [सिद्ध०] इत्यनेन पञ्चम्यां तदर्थे तसि चैवं व्याख्या वर्तन्त इत्यस्य घण्टालालान्यायेनोभयत्रापि वाक्ये सम्बन्धमनुयोज्य, अन्यथा तु भवनं भावः क्रियारूपधात्वर्थमात्रे घञ् , स्वस्य भावः तथा तथा वर्तनमिति व्युत्पत्तौ 'गुणादस्त्रियां हेतो'[सिद्ध०] रितिसूत्रेण हेतौ पञ्चमी, तथा च तथा तथानिजस्वभावादित्यर्थः सम्पद्यते, तथापि न कश्चन विरोधः । तथा तथा वर्तनं च धर्मादीनां नान्यकृतम् । नहि जीवपुद्गलादीन् आलम्ब्यैव धर्मादीनां गत्युपष्टम्भकस्वभावता जाता, नवाऽऽकाशाशादीनामवगाहनोपष्टम्भस्वभावता, किन्तु स्वभावसिद्धव व्यज्यते तैः। तथा जीवोनामुपयोगस्वभावता पुद्गलानां मूर्तस्वभावताऽपि च स्वस्वभावादेव । तथा चाकृत्रिमत्वात् स्वभावस्य, भावा अपि तेऽकृत्रिमा एव ।
For Private And Personal Use Only