Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० लोकविंशिका द्धे 'रितिनियमात् । अत एव च द्रव्यार्थतया शाश्वतत्वप्रतिपादनेऽपि भगवद्भिराख्यातः स्याच्छब्दः। यत उक्तम्-‘दव्वट्ठयाए सिय सासए' इत्यादि भगवत्याम् । ____ एवं च पश्चानामपि धर्माधर्माकाशासुभृत्पुद्गलानां तथा तथा निजस्वभावतोऽनादिनिधनत्वं सिद्धम् । अत्र शब्दार्थ एवम्-तेन तेन प्रकारेण धर्मादीनां प्रत्येकविमिन्नस्वभावत्वावेदनाय द्विवचनोक्तत्वात् यथा यथा तेषामधुना सत्ता तथा तथैव निजानां-स्वेषां धर्मादीनां स्वभावः-स्ववर्त्तनम् , नेमे वर्तन्तेऽन्यतः, किन्तु स्वयमेव, तस्माद् अनादिनिधना इति । प्रत्येकं वाऽऽयोज्यमेतत् ‘तथा तथे 'ति । द्विर्वचनं तु प्रतिक्षणं वर्तनयुक्तताज्ञापनाय । यद्वा-अन्योन्यपरिणामाभावज्ञापनाय ' तथा तथे 'ति । सर्वदा सर्वेषामेव स्वस्वभावेन वर्त्तनं पर्यायापेक्षयोपि वृत्तिताज्ञापनायैव व्याख्यायमानत्वात् नाविशेषः । अथ पञ्चानामध्येषां सर्वथा नित्यत्वे स्युरेवाप्रतिहता अनेके दोषाः, नचाभ्युपगताः सूरिभिः । यत उच्यते... 'य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिनशासनं ते ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥ जीवानाश्रित्य च-सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥ तथा च-यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नव तथा दोषोऽस्ति कश्चन ॥ [ कीतराग० ] इति क्चनादित्याहुः कथञ्चित् पर्यायापेक्षयाऽनित्यत्वज्ञापनाय वर्तनमप्येतेषाम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256