Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका १८७ जीवाजोवविभिन्नं न अस्थि वत्थंतरंति जप्पभवा । होज्ज इमे खलु जीवा ण कत्तिवादो तओ जुत्तो ॥३०॥ चेतनावान् हि जीवः तद्वियुक्तश्चाजीव इति । न तदुभयाभावान्वितः कोऽपि यतः, ततो न वस्त्वन्तरं जीवाजीवविभिन्नम् । तादृशवस्त्वभावे कुतस्तत्प्रमवत्वं भवेज्जीवानाम् , 'सति धर्मिणि धर्माः ग्रामे च सीमे 'ति नियमात् । तथा च ईश्वरलक्षणाज्जीवात् तद्वथतिरिक्तादजीवादसम्भवित्वाच्चान्यस्याध्यक्षमवगमाच्च जीवानां, नेमे विहिताः केनापीति सिद्धम् । तथा च जीवकर्तृत्ववादो न युक्तो मनीषिणामभ्युपगन्तु. मपि नो युक्तः, युक्तस्यैव तैरभ्युपगमात् । एवं कर्तृवादनिराकरणेन साधितं अनादिनिधनत्वं जीवानां साधयन्त आहुः कारणविरहा परमरिसिवयणतो भणियदोससब्भावा । तम्हा अणादिनिहणा जीवा सव्वेवि सिद्धमिणं ॥३१॥ कारणम्-उपादानकारणादि, यथा घटस्य मृत्पिण्डादि, तस्य विरहः-अमावस्तस्मात् । स च भौतिकवादनिराकरणादीश्वरकर्तृत्वप्रतिविधानाच्च । ननु किमतत् ? उपादानकारणता निराकृता, न शेषेति चेत् । तदनुसारित्वादेव शेषायाः तन्निराकरणनिराकृतत्वं तस्या अपि । यद्वा-स्वसिद्धान्तप्रतिपादनप्रस्तावात् न द्रव्यषटकेऽप्यस्ति तद्वस्तु, यद् जीवोत्पत्ती कारणतां बिभृयात् । अपरं कारणमाहुरनादिनिधनत्वे-'परमर्षिवचनतो'ऽपि । अपिगम्योऽत्र हेतुसमुच्चायकतया । यद्वा-द्रव्यषट्कस्य तत्स्वरूपस्य च कुतः प्रामाण्यतेत्याहुः- परमे 'ति । यद्वा-अनादिनिधनत्वसाधने किमालम्बनं ? कारणविरहे तु वस्तुन एवाभावापसेरित्याहुः-'परमे 'ति, परमेति च अकलङ्कितज्ञानसम्पमत्वेनाप्ततासापनायैषाम् । तथा चाविप्रतारकवचनाद् जीवानामनादिनिधनतेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256