Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका स्वान्न लक्ष्यते इति तु वार्तमेव, प्रमाणाभावात् । भवेद्वा शरीरे अनेकचैतन्यप्रसङ्गः, शरीरमहत्त्वे वा चैतन्यविभवबहुत्वप्रसङ्गो वा । न चैते दृश्यमानेषु नर-करि-तुरङ्गशरीरेषु । अन्यथादृष्टेः । युक्तं स्वप्नोपमत्वं चेत् सर्वेषां ब्रह्मव्यतिरिक्तत्वम् । तदपि नालं त्राणाय । यतः स्वप्नोऽपि हि न केवलशून्यतायामेकत्वे वा, अनुभूतादिहेतूनामेव स्वप्नोत्पादकत्वात् । दृश्यापेक्षया च स्वप्नस्यासत्यता कीयते । अत्र तु न किमपि दृश्यमेव । तथा च स्वप्नदशापि जागरापेक्षिक्येव, सापि नात्र । ब्रह्मप्राप्ती जाग्रदशेति चेत् । सत्यम् , परं विभाज. कासत्यत्वे कथं तस्यापि सत्यत्वम् , सत्यत्वे च तस्य कथमितरस्यासत्यत्वम् । श्रुतिश्च पूर्वोक्ता जीवनिर्वय॑त्वाद् वनस्पत्यस्मदादिशरीरवद् बनस्पतिजीवास्मदादिजीवभूतानां सङ्गमितुं शक्यैव । न चाऽत्राऽपरो मायादिविशेषश्चर्च्यते, पूर्वप्रदर्शितलक्षणोपकारादिप्रबन्धेन तस्य सिद्धस्वादध्यक्षम् । यतो मायापि सत्यसती वा पुद्गलोपादानताद्वारा जीववैचित्र्यहेतुर्जगद्वैचित्र्यहेतुश्च स्याद् । आद्ये, स्पष्टैव द्वैतापत्तिः। जीवत्वे च तस्या विचित्रताहेतुत्वाभावात् स्पष्टमेवाजीवत्वं स्वीकार्यम् । अन्यथा वैचित्र्याभावाज्जीवानेकत्वाभावात् । असत्त्वेऽपि च तस्याः कथकारं वैचित्र्यहेतुत्वं शशश्रृङ्गादेरिव । सदसती चेत्, स्पष्टं द्वैतापत्तिर्जङत्वाभ्युगमश्च पूर्वोक्तयुक्त्या । तथाविधाया अपि सत्त्वाविशेषात् सत्त्वगौणत्वेऽसत्त्वप्रधानीभावेऽपि च न बिहाय कल्पनां लभ्यते भावुकं भव्यं, सत्त्वाविशेषादेव । तथापि अनिर्वाच्या चेत् , तस्या अपि स्वरूपं वाच्यं, यदेव तस्य स्वरूपं तेन सा सत्येव, अन्यथा निर्वाच्यवाभावात् । न चानिर्वाच्यस्वरूपत्वे च तस्याः स्याज्जगदुत्पत्तिकारणता, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256