________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका स्वान्न लक्ष्यते इति तु वार्तमेव, प्रमाणाभावात् । भवेद्वा शरीरे अनेकचैतन्यप्रसङ्गः, शरीरमहत्त्वे वा चैतन्यविभवबहुत्वप्रसङ्गो वा । न चैते दृश्यमानेषु नर-करि-तुरङ्गशरीरेषु । अन्यथादृष्टेः । युक्तं स्वप्नोपमत्वं चेत् सर्वेषां ब्रह्मव्यतिरिक्तत्वम् । तदपि नालं त्राणाय । यतः स्वप्नोऽपि हि न केवलशून्यतायामेकत्वे वा, अनुभूतादिहेतूनामेव स्वप्नोत्पादकत्वात् । दृश्यापेक्षया च स्वप्नस्यासत्यता कीयते । अत्र तु न किमपि दृश्यमेव । तथा च स्वप्नदशापि जागरापेक्षिक्येव, सापि नात्र । ब्रह्मप्राप्ती जाग्रदशेति चेत् । सत्यम् , परं विभाज. कासत्यत्वे कथं तस्यापि सत्यत्वम् , सत्यत्वे च तस्य कथमितरस्यासत्यत्वम् । श्रुतिश्च पूर्वोक्ता जीवनिर्वय॑त्वाद् वनस्पत्यस्मदादिशरीरवद् बनस्पतिजीवास्मदादिजीवभूतानां सङ्गमितुं शक्यैव । न चाऽत्राऽपरो मायादिविशेषश्चर्च्यते, पूर्वप्रदर्शितलक्षणोपकारादिप्रबन्धेन तस्य सिद्धस्वादध्यक्षम् ।
यतो मायापि सत्यसती वा पुद्गलोपादानताद्वारा जीववैचित्र्यहेतुर्जगद्वैचित्र्यहेतुश्च स्याद् । आद्ये, स्पष्टैव द्वैतापत्तिः। जीवत्वे च तस्या विचित्रताहेतुत्वाभावात् स्पष्टमेवाजीवत्वं स्वीकार्यम् । अन्यथा वैचित्र्याभावाज्जीवानेकत्वाभावात् । असत्त्वेऽपि च तस्याः कथकारं वैचित्र्यहेतुत्वं शशश्रृङ्गादेरिव । सदसती चेत्, स्पष्टं द्वैतापत्तिर्जङत्वाभ्युगमश्च पूर्वोक्तयुक्त्या । तथाविधाया अपि सत्त्वाविशेषात् सत्त्वगौणत्वेऽसत्त्वप्रधानीभावेऽपि च न बिहाय कल्पनां लभ्यते भावुकं भव्यं, सत्त्वाविशेषादेव । तथापि अनिर्वाच्या चेत् , तस्या अपि स्वरूपं वाच्यं, यदेव तस्य स्वरूपं तेन सा सत्येव, अन्यथा निर्वाच्यवाभावात् । न चानिर्वाच्यस्वरूपत्वे च तस्याः स्याज्जगदुत्पत्तिकारणता,
For Private And Personal Use Only