________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
लोकविंशिका
तस्यापि तथात्वे स्पष्टैव व्यवहारविरुद्धता उपदेशाद्यभावश्च । प्रोच्यते 'चासौ श्रुत्या 'आत्मा वा अरे अयं श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादिकया। ___ अन्यच्च-असत्यत्वेऽविद्यायाः कथं सत्त्वं विद्याया अपि, अविद्योन्मूलनत्वात्तस्याः । असति च मूले कैवाऽऽशा वृक्षस्येव विद्यायाः?। नहि रज्जो सर्पभ्रान्तिरपि भवति रज्ज्वभावे । न च विना विप्रता. रकान् कोऽप्युपदिशति सर्पदष्टानिव रज्जुसर्पदंशभीतान् मन्त्राापचारान् । न च भवति रज्जुसर्पदंशभ्रममात्रेण जीवितव्युपरतिः । अत्रापि च नैव स्यादेवं सति आत्मनोऽसर्ववित्ता । अविद्याया अस. त्यत्वे तस्य निवर्त्तनोपायोपदेशोऽपि च न युक्तः । तथा च समाप. तितं शाङ्करानुसारिणां विपश्चित्तिरस्कारावाप्तभ्रमनाशानां शङ्कराचार्याणामिव कान्दिशीकत्वम् । तन्नासत्वं मायायाः, सैव च पुद्गलसंहतेर्वाच्यान्तरम् । शब्दभेदे च न विवादो नैगमानुसारिणामिति सिद्धमस्तिकायपञ्चकमप्रतिहतप्रमाणेन बिदुषाम् । तथा च ।
व्याख्याय पञ्चास्तिनिकायरूपान् , यदर्जितं पुण्यमलं सुबुद्ध था। भवे भवे तेन भवन्तु लोकाः , सज्ज्ञानशुद्धा गतसर्वशोकाः ॥१॥
व्याख्यायैवं पञ्चास्तिकायं प्रस्तुते लोकानादित्वे योजनाय तेषां तथाभावे हेतुं चाहुः--
पए अणाइनिहणा तहा तहा नियंसहावओ नवरं । वटुंति कजकारण-भावेण भवे ण परसरूवे ॥३॥
तत्र 'एसे' अनन्तरोदिताः। एतच्छब्दनिर्देशेन च समीपतरचर्तिता निरदेशि भगवद्भिः, तत्रैवैतच्छब्दप्रयोगाद् । यत उच्यते--
For Private And Personal Use Only