________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१७५
' इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥ इति । कीदृशा एते ? ' इत्याहुः'अनादिनिधना' इति । तत्रादीयते-गृह्यते अस्मादित्यादिः ' उपसर्गादः किः' [सि० ५। ३ । ८७ ] इति किः । तथा निदधातिधारयत्यन्त्यावस्थायां, पोषयति वा विनाशपक्षमिति वा निधनं-नाशः। 'तुदादिवृजिरञ्जिनिधाभ्यः कित्' [२७३] इति किदने रूपनिष्पत्तिः। आदिश्च निधनं चेति आदिनिधने, निर्गते आदिनिधने येभ्यो, यद्वानिर्गता आदिनिधनाभ्यां ये ते अनादिनिधनाः । धर्माधर्माकाशजीवपुद्गलरूपाणां पञ्चास्तिकायानां न विद्यतेऽसतः प्रादुर्भावरूपोत्पत्तिः, न वा सतोऽभावरूपो विनाशोऽपीति ।
ननु किमेतत् ? तथा सति असत्त्वापत्तेः, उत्पादव्ययधौव्यलक्षणमेव हि सत्तयाऽभिमन्यते, पञ्च चैते न तथेति विरुद्धमिदमिति चेत् । सत्यम् , द्रव्यापेक्षया हि अत्रादिनिधने प्रतिषिध्येते, न चास्ति द्रव्यार्थिकेऽपि तत , द्रव्यार्थिकेन ध्रोव्यस्यैवाऽऽम्नानात् । सत्यम् , परं न शास्त्रता तथा, दुर्नयत्वात् तस्य । यथार्थमुक्तम् , परं परव्यवच्छेदप्राधान्येनैव तस्य तथात्वम् , स्वप्राधान्यसमर्थनं तु न शास्त्रत्वव्याघाति । तदुक्तम्-' नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नी 'ति । अत एव च स्वार्थसत्यताऽनया नयानामाम्नाता, 'नयानां स्वार्थे सत्याना'मित्यादिना । ननु चैवमप्यस्य नयार्थतैव वाक्यस्य, न तु प्रमाणता, तस्यास्तु सम्पूर्णार्थविनिश्चायकत्वात् । तदुक्तम्-‘सम्पूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते' इति चेत् । सत्यम् , परमेकान्तिकौत्पत्तिकवादिनिराकरणायैतस्यारब्धत्वात् , नयस्य नयान्तरैः खण्डनस्यैव च शास्त्रार्थत्वात् न व्याहृतिः । यद्वा-द्रव्यार्थतयेत्यनाहत्य स्यादित्यध्याहार्यम् ।
For Private And Personal Use Only