________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
तथा स्याद्वादाङ्गपरिग्रहात् स्यादेव प्रमाणवाक्यता । स्यादेतत् , परं कथं लभ्या अनुक्तत्वादिति चेद् । अनुक्तोऽपि प्रतीयतेऽसौ एवकारादिवत् तदुक्तम्
सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादि-व्यवच्छेदप्रयोजनः ।। अत्रेदं तत्त्वम्-यथाहि कचिदप्रयुक्तोऽप्येवकारः प्रकरणादिबलेनाध्यात्य व्याख्यायते । स च क्वचिदयोगव्यवच्छेदफलः । यथाऽत्र देवत्वमपेक्ष्य जैनेन्द्रीयं
'जिनेन्द्र ! यानेब विबाधसे स्म, दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययैव, कृताः कृतार्थाः परतीर्थनाथैः ।। अत्र हि जिनेन्द्रस्य विलीनदोषत्वमयोगताव्यवच्छेदकं तच्चावधायैववकारम् । अन्येषां तद्वत्त्वप्रदर्शनं तु व्यतिरेकिदृष्टान्तप्रकरणात , न तु तत्र योगव्यवच्छेदोऽभिप्रेतः । अन्ययोगव्यवच्छेदश्च यथा-तत्रैव पक्षे
'यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवनिष्प्रतिपक्षमेतत् । तथापि देहादहिरात्मतत्त्वमतत्त्ववादोपहतो पठन्ति ॥ इत्यादौ । कचिच्च असम्भवव्यवच्छेदप्रयोजनो, यथा-' दोषाऽऽवरणयोर्हानिनिःशेषाऽस्त्यतिशायनाद् ' इत्यादौ । व्यावहारिके वा यथा-'चैत्रो धनुर्धर एव, पार्थ एव धनुर्धरः, नीलं सरोजं भवत्येवे 'ति विशेषणविशेष्यक्रियासङ्गतैरेवकारैर्भवत्येवं त्रिधा व्यवच्छेदोऽनुक्तेऽप्येवकारे । एवमत्रापि स्याच्छब्देऽनुक्तेऽपि स्वयमध्योहार्यः । आचार्याणां तथा. वादित्वात् । वश्यन्ति चात एव-' वट्टन्ति कजकारणभावेणे 'ति । तथा-' तथा तथा परिणतिस्वभावा' इति । न चैवं युज्यते प्रस्तुत एपकारयोजनामन्तरे गेति । विवादो वा द्रव्यविषय एष, अन्यैस्त
For Private And Personal Use Only