________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
लोकविंशिका
भावात् । प्रतिबिम्बत्वे वा वर्तुलत्वादयो यथा धर्माश्चन्द्रस्य विलोक्यन्ते, तथैवात्र ब्रह्मधर्माः सर्वज्ञत्वादयः स्फुरेयुः किं न ? । न च वाच्यं यथैव हि जलमलिम्ना प्रतिबिम्बमालिन्यं, तथा अत्रापीति । तथा सति स्पष्प्रैव भूतवादितापत्तेः प्रभावस्य च कुतोऽपि प्रतिबिम्बे गमनाभावात् । नहि खड्गप्रतिबिम्बेन च्छेदो, दाहो वाऽग्नेः प्रतिबिम्बेन भवति, तद्वत्रापि प्रतिबिम्बभावे न कथञ्चनापि चेतनासङ्क्रमो युक्तः । न चान्तर्मलिनं प्रतिबिम्बं न चात्र बहिस्थो दृष्टा, आपद्यते च स्पष्टमेवं शरीरविकारमात्रेण चैतन्यविकारः । न चैवमनुभूयते ऽभिमन्यते वा । तन्न कथञ्चिदपि न्याय्यं प्रतिबिम्बी भावमननम् ।
किच- पूर्वसिद्धेषु कुण्डादिषु प्रतिबिम्बभावः । कचात्र प्रत्येक चेतनानभ्युपगमे विधाता भूतसञ्चयस्यापि यतो भवेत् प्रतिविम्बं न वा प्रतिबिम्बं प्रतिबिम्व्यविकाराभावे स्वरूपतो विकारमाप्नुयात् । न चैवमत्र । तथाभावे च निरर्थकैव ब्रह्मज्ञानादिप्रक्रियेत्यलमतिप्रसङ्गेन । एतावता नाऽऽत्मानोंऽशा ब्रह्मणो न वा प्रतिबिम्बिताः, . किन्तु स्वतन्त्रा एवं स्वविहितादृष्टानुसारिसुखदुःखभोगिन इति सिद्धम् | बहुवचनं चाप्येतज्ज्ञापनायैव सूचितं सूत्रकारः । पुनलास्तु दृश्यन्त एवानेकविधाः प्रत्यक्षमिति (न) तेषामनेकत्वे विशेसूर्या । शून्यवादिनां तु प्रमाणसद्भावासद्भावविकल्पेनैवोपह तेरकिञ्चित्करत्वात् ।
ब्रह्मवादिभिचोच्यते-' यतो वा इमानि भूतानी 'त्यादिश्रुतेब्रह्मात्मत्वं पुद्गलानाम् | तदपि न क्षमम् । यतो नहि पुद्गला जीवोपादानभूताः । सच्चिदानन्दादिकल्पनापि द्वितीयमन्तरेणासमीचीनैव । जीवस्य स्वलक्षणमेव च चैतन्यं, न च तद् घटादिषु । अल्प
For Private And Personal Use Only