________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवद्' ॥ इत्यादिश्रुत्या 'आभास एव चे 'त्यादिसूत्रेण वा नांशत्वमङ्गीक्रियते, दोषभूयस्त्वापातात् । तत्सृष्ट्वा तदेवानुप्राविशत् । ते. २-६ । नान्योऽतोऽस्ति दृष्टा । बृ. ३-७-२३ । मृत्योः मृत्युमाप्नोति य इह नानेव पश्यति । बृ. ४-४-१९ । तत्त्वमसि । छां. ६-८-७ । अहं ब्रह्मास्मि । बृ. १-४-१० । इत्याद्यनेकश्रुतिविरोधाज्जीवात्मनां प्रतिबिम्बभावमामनन्ति समादधति च'सोऽन्वेष्टव्यः स विजिज्ञासितव्य' इति 'एतमेव विदित्वा मुनिर्भवति य आत्मचि तिष्ठन्नात्मानमन्तरो यमयती 'त्यादि, सर्पः स्वशरीरेण स्वशरीरे स्वशरीरं वेष्टयतीत्यादिवद् अहं मां जानामीत्याद्यागमव्यपदेशसद्भावाच अनेककारकयोगस्याविरोधाद्, एकस्मिन्नेव वस्तुनि विवक्षाधीनानि हि कारकाणि यतः । परमेतदपि नैवाविवथम्, यतः प्रतिबिम्बं तावद्भपिणामेव । न चाकाशस्यालथाविधस्याप्यस्त्येव प्रतिविम्दीभाव इति । यतस्तदपि प्रभायाः सूर्यादिकाया एव, अन्यथाऽऽत्मनामपि प्रतिविम्बनप्रसङ्गोत् ।
प्रतिविम्बीभावश्च किं पुद्गलस्वभावेनात्मस्वभावेन बा ? , उभयजापि सर्वत्र तत्प्रसङ्गो दुर्निवारः, पुद्गलानां सर्वत्र भावात् आत्मनश्च । किञ्च-भवान्तरादि कर्म तदनुभवश्च पलायित एव एवं सति, नहि प्रतिबिम्बस्य भवति देशान्तरमत्यादि, आफ्द्यते चैवं सति सम्पूर्ण नास्तिक्यमेव तत्त्वतः । यतो जलस्य स्वभावश्चन्द्रप्रतिबिम्बग्रहणे तथा आत्मप्रतिबिम्बग्रहणेऽपि च भूतसमुदायस्य कायाकारपरिणतस्त्र स्यात् । परभवाभावे च तपोनियम-ब्रह्मज्ञानाद्यपि च व्यर्थमेव ।
किञ्च-नहि प्रतिबिम्बं भवति चेतनं, प्रतिबिम्बत्वस्यैव तथात्वा
For Private And Personal Use Only