Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ लोकविशिका सुखदुःखाश्रय इति किं सुखादिज्ञानं नोत्पद्यते विषयैः साकं पञ्चभिरपि ?। अपि चानुव्यवसायस्मरणादिकमपि कथं न भवति युगपन् , कथं चानेकाः क्रियाः शरीर एकस्मिन् ?, तन्न मनसोऽणुता न्याय्या। किश्चाऽणुत्वे मनसः चक्षुरिन्द्रियकनीनिकायामल्पोपधाते किमिति तेजसोमान्यम् ?। किञ्चाऽवलोकनं मन्दं कथं चाग्निकणेन दाहे शरीरस्याग्निप्रचयेन वा दाहे पीडातारतम्यं मनसोऽणुत्वेऽणुमात्रदुःखवेदनेन साम्यप्रसङ्गात् उभयत्रापि । एवं शरीरैकदेशे शैत्यग्रस्ते सर्वस्मिंश्च तथाभूते न कोऽपि स्याद्विशेषः, उपलभ्यते च कम्पविशेषोपलम्भः । न च वाच्यं स्मरणनिमित्तः स इति तदुल्लेखस्य ततस्तथादुःखोपलम्भस्य चाभावात् , अस्त्येव स्वप्ने इति चेत्, न तत्र केवलं स्मरणं किन्तु विद्यमानतयावभासः । न चैवमत्र । न चेन्द्रियत्वादसर्वगतत्वं तस्येति वाच्यम् । स्पर्शनस्य तथाभ्युपगमात् तथा प्रतिबन्धाभावाद्वा | अल्पबहुव्यापकता च दृश्यत एवेन्द्रियाणाम् , अप्राप्यकारित्वं तु न तेनाभ्युपगत चक्षुषः, येन सिद्धचेत् प्रतिबन्धो बहिर्व्याप्त्यापि । न च मूर्त्तत्वमध्यणुत्वसाधकं तस्य, तस्यापि तथाव्याप्त्यभावात् , गतिमत्त्वं चेन्द्रियत्वे स्पष्टमेव विरुद्धं, नियमितं च स्थानं न भवेदेवं तस्य, यदा छ न कोऽपि विषयोपलम्भो विषयाद्यभावात्तदा क्वेदं तिष्ठतीत्यपि विचार्यमेव । सर्वशरीरगतत्वे च न कापि क्षतिरित्यलं विस्तरेण । तथा 'प्राणापाना 'विति । तत्र प्रकर्षण अन्तर्मुखतया अन्यतेगृह्यते श्वास इति प्राणः , तथा अपेति बहिर्मुखतया अन्यते-श्वासो निष्काश्यते सोऽपानः । यदाहुः- श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छवास आहरः। आनो बहिर्मुखस्तु म्यान्निश्वासः पान एतनः ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256