________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
लोकविशिका सुखदुःखाश्रय इति किं सुखादिज्ञानं नोत्पद्यते विषयैः साकं पञ्चभिरपि ?। अपि चानुव्यवसायस्मरणादिकमपि कथं न भवति युगपन् , कथं चानेकाः क्रियाः शरीर एकस्मिन् ?, तन्न मनसोऽणुता न्याय्या। किश्चाऽणुत्वे मनसः चक्षुरिन्द्रियकनीनिकायामल्पोपधाते किमिति तेजसोमान्यम् ?। किञ्चाऽवलोकनं मन्दं कथं चाग्निकणेन दाहे शरीरस्याग्निप्रचयेन वा दाहे पीडातारतम्यं मनसोऽणुत्वेऽणुमात्रदुःखवेदनेन साम्यप्रसङ्गात् उभयत्रापि ।
एवं शरीरैकदेशे शैत्यग्रस्ते सर्वस्मिंश्च तथाभूते न कोऽपि स्याद्विशेषः, उपलभ्यते च कम्पविशेषोपलम्भः । न च वाच्यं स्मरणनिमित्तः स इति तदुल्लेखस्य ततस्तथादुःखोपलम्भस्य चाभावात् , अस्त्येव स्वप्ने इति चेत्, न तत्र केवलं स्मरणं किन्तु विद्यमानतयावभासः । न चैवमत्र । न चेन्द्रियत्वादसर्वगतत्वं तस्येति वाच्यम् । स्पर्शनस्य तथाभ्युपगमात् तथा प्रतिबन्धाभावाद्वा | अल्पबहुव्यापकता च दृश्यत एवेन्द्रियाणाम् , अप्राप्यकारित्वं तु न तेनाभ्युपगत चक्षुषः, येन सिद्धचेत् प्रतिबन्धो बहिर्व्याप्त्यापि । न च मूर्त्तत्वमध्यणुत्वसाधकं तस्य, तस्यापि तथाव्याप्त्यभावात् , गतिमत्त्वं चेन्द्रियत्वे स्पष्टमेव विरुद्धं, नियमितं च स्थानं न भवेदेवं तस्य, यदा छ न कोऽपि विषयोपलम्भो विषयाद्यभावात्तदा क्वेदं तिष्ठतीत्यपि विचार्यमेव । सर्वशरीरगतत्वे च न कापि क्षतिरित्यलं विस्तरेण ।
तथा 'प्राणापाना 'विति । तत्र प्रकर्षण अन्तर्मुखतया अन्यतेगृह्यते श्वास इति प्राणः , तथा अपेति बहिर्मुखतया अन्यते-श्वासो निष्काश्यते सोऽपानः । यदाहुः- श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छवास आहरः। आनो बहिर्मुखस्तु म्यान्निश्वासः पान एतनः ।।
For Private And Personal Use Only