________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१५७
[अभिधान०] इति । अथवा ऊर्ध्वगतः श्वासवायुः प्राणोऽधोगतः स एवापान इति । यदुच्यते-'प्राण ऊर्ध्वगतिर्वायुरधोगोऽपान उच्यते' इति । यद्यपि प्राणादिकाः पञ्च वायव उच्यन्ते ।। ___ 'प्राणो नासाग्रहन्नाभि-पादाङ्गष्ठान्तगोचरः । अपानः पवनो मन्थापृष्ठपृष्ठान्तपाणिगः ॥ समानः सन्धिहन्नाभिषूदानो हच्छिरोन्तरे। सर्वत्वग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः' ।। [अभिधान०] इत्यादिना, परं सर्व एतेऽन्ये चत्वारः प्राणानुसारिणः प्राणस्यैव वा स्थानविशेषतोऽभिधानविशेषा एते इति न तेऽत्रोक्ताः। अनुसारित्वं च व्यवहारलोकसिद्धमेव । यत आहुलौकिकाः
'अथ ह प्राण उच्चिक्रमिषन्स्स यथासुहयः षड्वीशशङ्कन्सटि देदेवमितरान् प्राणान् समखिदत्त हाभिसमेत्योचुर्भवगन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमी रिति । अत एव चोपचारविधिनोच्यते-प्राणो वा आशाया भूतान्यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राणः आचार्यः प्राणो ब्राह्मण इति [छां० ७-१५-१] प्राणो वै ब्रह्मेति व्यजानात् प्राणा ह्यव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यमिसंविशन्तीति च । भृगुवल्लयाम् ।
ननु किमिति तर्हि प्राणापानोभयग्रहणमिति चेत् , सत्यम् , प्राणग्रहणेनापि स्याद्हणं, परमुच्छ्वासनिःश्वासयोः स्पष्टो भेदो विरुद्धा प्रवृत्तिश्चेतिज्ञापनाय । यद्वा-प्राणायामादिषूभयोरुपयोगविशेषेणेति । अथवा आप्तागमेऽपि उच्छ्वासनिःश्वासयोरायुः
For Private And Personal Use Only