________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
लोकविशिका कारणतया विशेषितौ इति । यदि वा भवत्येवाऽसज्ञिनां नराणामुच्छ्वासमात्रग्रहो, न निःश्वासस्य तस्य प्राप्तिरायुःक्षयादिति सन्त्यनेकानि कारणान्युभयोक्तौ।
ननु च किमिति प्राणापानाविति द्विवचनान्तम् , यतः प्राण्यङ्गत्वेन ‘प्राणितुर्याङ्गाणा' [ ३-१-१३७ ] मित्येकत्वनियमादिति चेत् । सत्यम् , परमत्र नाङ्गाङ्गीभावः । नपुंसकत्वमेकत्वं च तत्रैव भवति । प्राणापानौ तु न प्राण्यङ्गभूतौ । अङ्गत्वं हि कर्णनासिका. देरेव । यद्वा-'सों द्वन्द्वो विभाषयैकवद् भवती'-तिन्यायान्न क्षुण्णं किञ्चित् । अत एव च मुखनासिकाभ्यामुच्चार्यमाण इत्यादि सङ्गच्छते । एतेन ‘शरीरवामनःप्राणापाना' इत्यत्रापि किं नैकत्वमित्यपि निरस्तम् , समानसमाधिकत्वात् ।
ननु चोक्तेष्वपि शरीरादिष्विन्द्रियायुराहारादीनि कि नोक्तानि ?, न च वाच्यं न तानि पुद्गलरूपाणि, यतो भावेन्द्रियाणामतथात्वेऽपि द्रव्येन्द्रियाणां तथात्वस्याव्याहतेः, आयुश्चापि पौद्गलिकमेव, आहारस्तु स्पष्टः पौगलिक एवेति चेत् । सत्यमुक्तम् , अयुक्तं तूक्तम् , यतो द्रव्येन्द्रियाणि शरीराङ्गभूतान्येव आयुश्च श्वासकारणम् , आहारस्तु शरीरतया परिणमतीति शरीरलक्षणकार्यग्रहणगृहीत एवेति न न्यूनता । न च वाच्यं तर्हि मा भवतु वागादीनामपि ग्रहणम् , यतस्तान्यपि शरीरकार्यभूतान्येवेति । यतः शरीरवतामेकेन्द्रियाणां वाचः, वचस्विनामपि द्वीन्द्रियादीनां मनसः, प्राप्तकरणपर्याप्तभावानामपि लब्ध्यपर्याप्तानां श्वासपर्याप्तेरभावाच्च आवश्यकमेव शेषग्रहणस्य । न च कश्चिदपि शरीरी भवतीन्द्रियायुराहारशून्य इति विशेषता वागादीनाम् ।
For Private And Personal Use Only