________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१५९
न च वाच्यं कथं क्रम एष, यतो यदि पर्याप्तिक्रमेणोद्देशः , तदा शरीरप्राणापानवाङ्मनांसीति वाच्यम् , यदि चोत्तरभावे पूर्वभावस्यावश्यकताज्ञापन, तदापि तथैव वाच्यमिति । योगस्य प्राधान्यादादौ योगानां वाच्यताऽभिप्रेता, तत्र च यथेच्छया पर्याप्तिक्रमेण पूर्वोत्तरलाभालाभक्रमेण वा न्यासः सुखावसेयः । श्वासोच्छ्वासयोः 'आद्यन्तयोग्रहणे मध्यस्यापि ग्रहण 'मिति न्यायेन, तदभावे वाऽङ्गमनसोरभावाच्च स्यादेव ग्रहणम् , परं लोकत्र्यवहारसिद्धत्वात् तयोरायुः कारणत्वाच्च स्पष्टग्रहणम् । योगानां च सति शरीरे वाग , सति च वचने मन इति नियमादनुक्रमश्चोद्य एव न । एवं पुद्गलानां साक्षादुपकारं परिणमनोपकारं वा प्रदर्य नैमित्तिकमुपकारं प्रदर्शयन्त आहुः
‘सुखदुःखजीवितमरणोपग्रहाश्च' तत्त्वा०] इति । तत्रोपग्रह इत्यनुवर्तमानमासीत् 'गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः' तत्त्वा०] इत्यतः सूत्रात्, परं पूर्वसूत्रे पुद्गलानां परिणम्यमानाः पदार्थाः प्रतिपिपादयिषिता इति न तत्र तत्सम्बद्धं, मण्डूकप्लुतिन्यायः चकारेण 'प्रत्यये च' इत्यत्रेव वा अनुवृत्त्यभावेऽपि पुरतः सा भवेदिति ज्ञापनं च दुरवबोधमिति नादद्रे सूरिवर्यैः , निमित्तकारणता च ज्ञापिता पुद्गलानां सुखादिषु, शरीरादीनां तूपादानभूता इति ।
तत्र सुखयति-आहादयति जीवमिति सुखम् । यद्यप्यात्मस्वभावभूतमेतत् तथापि ज्ञानस्य स्वभावभूतस्यापीन्द्रियादिवदुपष्टम्भकाः पुद्गलाः । यत इष्टस्पर्श-रस-गन्ध-वर्णवत्पुद्गलसमागमे इष्टशब्दादिसमागमे च सम्पद्यत एव सुखम् । न च विहायाऽऽत्ममननक्षान्त्यादिजं सुखमन्यद् विना पुद्गलान् भवति । तथा च नियम एष यदुत
For Private And Personal Use Only