________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
लोकविंशिका
HTHA
वैषयिकं सुखं पुद्गलोपगृहीतमेव, सातवेदनीयमप्येतद्धेतुकमेव । अनेन कथमदृष्टवियुक्तानां सिद्धात्मनां सुखम् , सुखमात्रेऽदृष्टजन्यत्वावधारणात् तदुत्कर्षे तदुत्कर्षात्तदपकर्षे तदपकर्षाच्चेति प्रलापो निरस्तः । पौद्गलिकस्यैवास्य तथात्वाद् , अन्यथा योगिनां सुखित्वाभावप्रसङ्गात् , आत्मोद्भवस्य तस्य तदजन्यत्वात् । न चादृष्टमात्रस्य सुखजन्यता किन्तु तद्विशेषस्य, विशिष्टादृष्टस्य विशिष्ठसुखकारणत्वावधारणाद्, अन्यथाऽनेकविधानां सुखानामेकस्मिञ्जोवे दृश्यमानं तारतम्यं न कथञ्चिदपि घटामिय्यात् ।।
तथा दुःखयति-विमुखं करोति प्राणिनमिति दुःखम्-असातोदयसम्पाद्य आत्मपरिणामविपर्यासः। सोऽध्यनिष्टस्पर्श-गन्ध-वर्णवत् पुद्गलशब्दादिसमागमे । ननु चाऽऽधिजमपि विद्यत एव दुःखम् । सत्यम् , तस्यापि इष्टवियोगानिष्टसंयोगवेदनादिभवत्वात् , इष्टादयश्च पुद्गलरूपा एव । तत्त्वतस्तु सर्वमपि वैषयिकं सुखं वा दुःखं वा तथा तथा पुद्गलसान्निध्येऽपि विकल्पजमेव, यदाश्रित्योच्यते
'कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ।। अन्येषां यो विषयः स्वाभिप्रायेण भवति तुष्टिकरः । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ।। तानेवार्थान् द्विषतः तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं वा न विद्यते किश्चिदिष्टं वा ।। [प्रशम०] इत्यादि । सर्वमपि चैतद्वयवहारपथानुसारेण । निश्चयस्तु वैषयिकस्य सर्वस्य दुःखोत्पादकत्वमेव विकल्पम्य, यदाश्रित्योक्तं योगाचार्यैरपि-' परिणाम-तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिन' इति, गौतमेनापि विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः । (न) सुख
For Private And Personal Use Only