________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
म्यान्तरालनिष्पत्तेः । बाधनाऽनिर्वत्तेवेंदयतः पर्येषण दोषादप्रतिषेधः । दुःखविकल्पे सुखाभिमानाच्च' [न्यायदर्शनम् इति । तथा बाधनालमग दुःखं । तदत्यन्तविमोक्षोऽपवर्गः । श्रुतिकारा अपि 'सुखं स्वाभाविकं यत्र बुद्धिग्राह्यमतीन्द्रिय 'मित्यादिनाऽस्यास्वाभाविकतां ज्ञापयन्तस्तदेवाहुः । आहुश्चात एव 'अशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाऽप्रियाम्यां, न वै शरीरस्य प्रियाऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं न प्रियाऽप्रिये स्पृशतः । अशरीरो वायुरभ्रं विद्युस्तनयित्नुरशरीराण्येतानि तद्यथैतानि अमुष्मादाकाशात् समुत्थाय परं ज्योतिरुपसम्पदा स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते' इत्यादि । आर्षवचनानुमारिगस्तु स्पष्टतरमेवाहुवैषयिकस्य सुखस्य दुःखानुबन्धताम् , यथा
'दुःखविट सुखलि सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥४०॥ [प्रशम० ] कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोत्रावबहृदयो हरिण इव विनाशमुपयाति ।। गतिविभ्रमे ङ्गिताकार-हास्यलीलाकटाक्षविक्षिप्तः। रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ।। स्नानाङ्गरागवतिकवर्णकधूपादिवासपटवासैः। गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ।। मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ।। शयनासनसम्बाधन सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलमतिर्गजेन्द्र इव बद्धयते मूढः । एवमनेके दोषाः प्रणष्टशिष्टेष्ठदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवति बाधाकरा बहुशः ।। एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनि
११
For Private And Personal Use Only