________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
लोकविंशिका
यमितात्मा जीवः पञ्चेन्द्रियवशातः । नहि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि । तृप्ति प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि ॥ रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥ आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥ यद्यपि निषेव्यमाणाः मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥ यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं मुक्तं विपाककाले विनाशयति ॥ तद्वदुपचारसम्भृतरम्यकरागरससेविता विषयाः । भवशतपरम्परास्खपि दुःखविपाकानुबन्धकः || अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत् । विषयपरिणामनियमो मनोनुकूलविषयेष्वनुप्रेक्ष्यः । द्विगुणोऽपि च नित्यमनुग्रहो ऽनव सञ्चिन्त्यः || [प्रशम ० ] इत्यादिना स्थाने स्थाने ' प्रीतेरात्माश्रयत्वादहेतुः (दप्रतिषेधः ) । न पुत्रपशुस्त्री परिच्छदहिरण्यान्नादिफलनिर्देशादिति तु गौतमीयं वचो वैषयिकस्यापि सुखस्यात्ममात्रकारणतानिवारणपरम् परं न ततः सुखदुःखयोर्वैषयिकयोः कल्पनोद्भवत्वहानि: । ' विषयनिमित्ते च सुखदुःखे ' इत्यत्रापि कल्पनोद्भवमध्याहृत्यैव व्याख्येयम् । तथा च सत्यपि मनोज्ञस्पर्शादौ आर्त्तस्य सुखानुपलम्भः कीटिकादीनां च विपरीतत्वेऽपि न हानिः नवा संसारभीरूणां मनोहरविषयत्यागोपदेशे लागे वा सुखत्यागो पदेश: सुखत्यागो वाऽयमित्यनिष्टानुबन्धिताज्ञानम् ।
,
ܕ
"
तथा जीवितमिति । तत्र जीवनं जीवितं भावे क्तविधानात् । यद्वा- जीवतीति जीवितं प्राणधारणम्, अकर्मकात् क्तः कर्तरि धात्वर्थे
For Private And Personal Use Only