________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
१६३
नोपसङ्ग्रहाजीवतेरकर्मकत्वम् । अत एव च नेदं प्राग्गृहीतशरीरपदसूचितायुषा गतार्थम् , आयुष एव जीवितकारणात् तस्याप्युपग्रहः पुद्गलैरेव । यत उच्यते 'दश जीवितधामानि शिरोरसनबन्धनम् । कण्ठो स्रं हृदय नामिबस्तिः शुक्रौजसी गुद' । मिति । धारणं चैतेषां यथायथमाहारं विज्ञाय देशकालमात्रद्रव्यगुरुलाघवं यथर्तु चोपयोजयेद्यदा । अत एवोच्यते-'धर्मों ह्यधीनो देहस्य देहश्वाहारसम्भवः । शरीरे तु निराहारे दुष्करा कर्मनिर्जरा ॥ अपेक्ष्य चैतदेव 'सव्वत्थ संजमं संजमाओ अपाणमेव रक्खिज्जे 'त्यादि । श्रीपरममुनिभिरपि-'अहो जिणेहिं असावज्जा वित्ती साहूण देसिया । मोक्खसाहणहे उस्स साहुदेहस्स धारणे'ति । देहस्स धारणं संजमाय तयसम्भवे कओ तस्से 'त्यादि च । अत एव चान्यैः-' अन्नं वै प्राणा' इति — अन्नमय आत्मे ' त्यादि चोच्यते ।।
ननु सत्यायुषि क्रिमेतेनाऽसति चापि चेति चेत् । सत्यम् , यथैवायुपः सद्भाव आवश्यको जीविते श्वासोच्छ्वासयोश्चैवमेवाहारादेरपि । नहि कार्यमेकतरकारणजन्यं किन्तु 'सामग्रो वै जनिके 'ति नियमात् । अनेन भक्तपाननिरोधस्य कथमतिचारतेत्यपि प्रतिपादितम् । विना जीवितनरपेक्ष्यं तद्विधानस्यापि वधवदसम्पत्तेः । अत एव चान्यैरतिशयितमुच्यते 'अन्नं ब्रह्मेति व्यजानात् अन्नाद् ह्येव खलु इमानि भूतानि जायन्ते, अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तथा तद्ध्यन्नाद्यं जायते' इत्यादि च । अनेन च केवलिनां कवलाहारोभावः प्रत्युक्तः, जीवितोपग्राहकाभावे तद्भावात् ।। __ तथा मरणं-जीवितापगमः । स च यद्यपि प्राणिलाभावजनित इति पुद्गलयोगाभावजचितः, तथापि तस्यापि कारणसंयोगसद्भावे एव
For Private And Personal Use Only