________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
लोकविंशिका
भाव इति यथार्थव पुद्गलनिमित्तता मरणस्य । अनेन चेदमावेदितं यदुत-येषामौपपातिकादीनामायुरनपवर्तनीय, न तेषां मरणं पुद्गलविहितम् , सोपक्रमा यद्यपि ते । इतरेषां तु जीवितमपवर्त्तते एवाम्न्याद्यैः । यत उच्यते___ 'सोपक्रममायुष्कं वेदनयाऽऽर्तस्य मूर्च्छतो जन्तोः । बन्धप्रा. योग्याभ्यां विगच्छति स्नेहरौक्ष्याभ्यां ।।१।। निरुपक्रमं तु न तथाऽsयुष्कं दृढसंहतं यदिष्टं तत् । न त्वग्न्याद्यैरनुपक्रम्यं कङ्कटुकमिव राद्धं ॥२॥ आयुष्कस्यावयवा बन्धनमुक्ता झटिति ते तस्मात् । आर्द्राद् वस्त्राद् यद्वत् प्रशोष्यमाणा जलावयवाः ' ॥३॥ कानि च तानि कारणानि ? येभ्यो मरणमिति चेद्, एतानि-प्राणाहारनिरोधाध्यवसाननिमित्तवेदनाघाताः । स्पर्शश्वायुर्भदे सप्तते हेतवः प्रोक्ताः॥ इति । शीतोष्णदण्डकशाङ्कशरज्जुखड्गादयोऽपि यथायथमत्रैवान्तर्भवन्तीति न पृथक प्रतिपादिताः।
ननु च यदि एतैः सम्पाद्यते मरणम् , आयुषो वैयर्थ्यम् , अन्यथा च मरणोपग्रहत्वं निरर्थकं चेत् । सत्यं, निरुपक्रमायुष्कस्य तु न किञ्चिद् विहाय पीडामन्यत् कर्तुं शक्नुवन्ति प्राणाहारनिरोधादीनि प्रकृष्टान्यपि । सोपक्रमायुषां तु व्यपरोपयन्त्येव जीवितम् । न चैवं कर्मणोऽऽनर्थक्यं तस्यैवोपक्रमात्तैः तथा बद्धं च तदिति नाऽनाश्वासः कश्चित् । ननु कथं दीर्घकालवेद्यं कर्म वेद्यतेऽल्पेन ? कथमन्यथा न कृतनाशाऽकृतागमप्रसङ्गः ? परभवीयस्यातथाविहितस्य तथानुभवप्रसङ्गादिति चेत् । न तावत् परभवीयं न निबद्धमतथानिबद्धं वा, दीर्घकालिकस्यापि च तस्यापवर्त्तनं तु विततवेष्टितवस्त्रशोषणन्याय उपरि प्रतिपादितो यस्तं नीरोग-भस्मकरोगभोजनन्यायश्च यस्तमनुः सृत्यानुशीलनीयम् । तथा चाहुः पूज्या:
For Private And Personal Use Only