________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
'कम्मोवकामिज्जइ अपत्तकालंपि जइ तओ पत्ता। अकयागमकयनासा मोक्खाणासासओ दोसा ।।१।। न हि दोहकालियस्स वि नासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ।।२।। सव्वं च पएसतया भुंजइ कम्मं णुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥३॥ किंचिदकाले वि फलं पाइज्जइ पञ्चए य कालेणं । तह कम्मं पाइज्जइ कालेण विपञ्चए अण्णं ।।४।। अह वा दीहा रज्जू उज्झइ कालेन पुंजिया खिप्पं । वितओ पडो व सुस्सइ पिंडीभूओ उ कालेणं' ॥ [ विशेषा० ] इत्यादि । तत्त्वतस्तु यदि कर्म नोपक्रम्यते तर्हि त्यक्तसांसारिकसुखासङ्गानां महात्मनां निष्फलमेव तपोनियमादि प्रसज्येत, भोगादेव क्षयम्याङ्गीकारात् । न च स्यादेवं मोक्षोऽपि, अनुक्रमवेदनात् सम्यक्त्वाद्यप्राप्तेः कालनियमाप्राप्तेश्च । अनेन ' हिंस्यकर्मविपाकेऽपि निमित्तत्वनियोगतः। हिंसकस्य भवेदेषा दुष्टा दुष्टानुबन्धत'॥ [अष्टके] इत्यपि समर्थितम् । तदेवं पुद्गलविहितोपकारव्याख्यानात् तदुपकारस्य सकलप्राणिसिद्धतया तेषां च प्रत्यक्षतया सिद्धिरप्रत्यूहा ध्वनिता । एतदेव ज्ञापनाय च 'ज्ञेया' इति अत्र योजितं पूज्यैरिति ।
'धम्माऽधम्माऽऽगासे'ति द्वितीयगोथाया व्याख्या-अत्र हि गाथायां 'धम्माधम्मागासा' इति समस्तं यत् पदम् , तत् तेषामेकैकद्रव्यत्वेन सम्भ्रमाभावात् , यतो बहुवचनं बहुत्ववत्स्वेव भवति । बहुत्वं च जघन्यतोऽपि त्रिरूपम् , तच सर्वेषामेषां प्रत्येकमेकत्वात् सङ्गच्छत एव । एकत्वं च तेषामखण्डत्वेन तथाभावात् । तथा च प्रदेशार्थतयाऽसङख्यातानन्तत्वे अपि भवन्ती न विरुद्धे । न च वाच्यं असङ्ख्या धर्मास्तिकाया इत्यादिवाच्यप्रसङ्गः । एवं प्रदेशा
For Private And Personal Use Only