________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
(२-२५) । तच्च सम्प्रधारणमेवं रूपं कस्य सम्भवति ? योऽनन्तानन्तान् मनोयोग्यान् स्कन्धान् आदाय मन्यते तल्लब्धिसम्पन्नो मनोविज्ञानावरणक्षयोपशमादिसमेतः । तथा च रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृष्ठेन तद्वत् क्षयोपशमलब्धिमतो मनोद्रव्यप्रकाशपृष्ठेन मनःषष्ठुरिन्द्रियैरर्थोपलब्धिः, यथा वाऽविशुद्धचक्षुषो मन्दमन्दप्रकाशे रूपोपलब्धिः । एवमसज्ञिनः पञ्चेन्द्रियसम्मूछेनजस्यात्यल्पमनोद्रव्यग्रहणशक्तेरर्थोपलब्धिः । यथा चेह मूञ्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणाम् , अतः शुद्धतरं शुद्धतमं च द्वोन्द्रियादीनाम् आपञ्चेन्द्रियसम्मूर्छनजेभ्यः, ततश्च तत् सझिनामतिप्रकृष्टतरमिति' । एतावता सर्वेषां मनस्वितासिद्धावपि किं तदणु वा अनणु ? वा । _____ अत्राह कश्चिदात्मनः शरीरे सर्वत्र सत्त्वाद् युगपत् पञ्चेन्द्रियविषयोपलब्धिर्न भवति, ततो नैव युक्ता मनसोऽनणुतेति । परम् अज्ञानविलसितमेतत् । यतोऽणुनि तस्मिन्नभ्युपगम्यमानेऽपि तदवस्थैव युगपज्ज्ञानोत्पत्तिः, कथमिति चेद् । भव सावधानमनाः, स्पर्शनेन्द्रियं तावत् सर्वशरीरपर्यन्तवर्ति जेगीयते, अन्तर्दाहोपलब्ध्याsस्थिक्वाथेऽपि च पीडोपलब्धेरसत्यत्वं यद्यप्येतस्य, तथापि तदभ्युपगमेनापि रसनेन्द्रियस्थानादिषु वर्तत एव तत्तत् किमिति न विषयद्वयोपलम्भप्रसङ्गः । रसाापलब्धौ प्रतिबन्धकताकल्पने च किं निमित्तं तत्र, येन सा सत्यां च तत्कल्पनायां मनसो यावच्छरीरव्यापकतायां किं बाधकम् , प्रतिबन्धकान्यपि चानेकानि कल्ल्यानि, तदपेक्षया लघोरेवोपयोगस्वभावस्य तथाकल्पनमेव न्याय्यम् ।
किच-यबेन्द्रियं रसनादि, तत्र चात्मापि विद्यत एव । स च
For Private And Personal Use Only