Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१६७ च इतो लोकाल्लोकान्तं यावद् गतिमुक्तानाम् , सापि न स्वयं विहिता, किन्तु पूर्वप्रयोगादिजैवेति । तथा च गमनाभावान्न शून्यता तैलोंकप्रदेशस्यापीति युक्तैवैकद्रव्यता तेषाम् । आनर्थक्यं च यदि स्वीक्रियते तदापि बहुत्वस्यक तन्मुक्त्वा शेषाणामर्थकारित्वाभावात् स्पष्टमेवावस्तुत्वापत्तेः । प्रत्येकसाध्यमेव च गत्यादि, तशुक्तमेकैकद्रव्यत्वं त्रयाणामेतेषाम् । जीवाः पुद्गलाश्चानन्ता इति प्रत्येकं बहुवचनान्तमभ्यधायि सूरिभिः । ___ ननु च कथं जीवानां बहुत्वं ? यत एकस्यैव ब्रह्मणोऽवयवा एते, यथा च कृशानुकणस्यापि दहनसामर्थ्य, विस्फुरन्ति विस्फुलिङ्गास्तस्मात् । तद्वदेवात्रापि ब्रह्मणः शेषजीवविनिर्गमः । गमनाद्यभावोदात्मनस्तद्रहितप्रदेशाभावान्नैतत् सङ्गतम् । अग्नेहि न सर्वव्यापकत्वम् , तथा च तस्यावयवाः स्युर्भिन्नाः । न चैवमत्र । तथा नाग्नेः स्वाभाव्येन स्फुलिङ्गोत्पत्तिः, किन्तु दाह्यवस्तुवैचित्र्योत्पादिता, अन्यथा लोहाद्यग्नेरपि भवेत् सा । किञ्च नामांशत्वं भवेदसम्बद्धत्वे सति, लोकविरुद्धत्वं चतत् , तन्निर्गममात्रेण चांशत्वे घटमृदिव पृथिव्याः, कः किमाह ?-जीवस्योत्पत्तिः तावदभ्युपगता भवतीतरस्येश्वरत्वात् , न्यूनता च ब्रह्मणोऽवयवापगमात् क्रमेण वस्त्रस्यैव तन्त्वपगमे ।
किञ्च-एकद्रव्यत्वं यद् ब्रह्मणोऽभिमन्यते भूयोवयवबद्धत्वं प्रतिनियतावयवबद्धत्तं सर्वावयवबद्धत्वं वा ?। आये, निर्गमे अंशानां स्पष्टैवानेकद्रव्यता, अंशस्यापि गुणादिमत्त्वेन द्रव्यत्वानपायात् । नहि अग्निकणो न द्रव्यं । प्रतिनियतावयवत्वेऽपि निर्गतानां तावदादित एव भिन्नद्रव्यतेति कथङ्कारमञ्चति घटाकोटिमेतत् । सर्वावयवसम्बद्धत्वे च स्फुटं दृष्टान्तवैषम्यम् , भिन्नत्वात् स्फुलिङ्गानामग्नेः। सत्यपि
For Private And Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256