SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका १६७ च इतो लोकाल्लोकान्तं यावद् गतिमुक्तानाम् , सापि न स्वयं विहिता, किन्तु पूर्वप्रयोगादिजैवेति । तथा च गमनाभावान्न शून्यता तैलोंकप्रदेशस्यापीति युक्तैवैकद्रव्यता तेषाम् । आनर्थक्यं च यदि स्वीक्रियते तदापि बहुत्वस्यक तन्मुक्त्वा शेषाणामर्थकारित्वाभावात् स्पष्टमेवावस्तुत्वापत्तेः । प्रत्येकसाध्यमेव च गत्यादि, तशुक्तमेकैकद्रव्यत्वं त्रयाणामेतेषाम् । जीवाः पुद्गलाश्चानन्ता इति प्रत्येकं बहुवचनान्तमभ्यधायि सूरिभिः । ___ ननु च कथं जीवानां बहुत्वं ? यत एकस्यैव ब्रह्मणोऽवयवा एते, यथा च कृशानुकणस्यापि दहनसामर्थ्य, विस्फुरन्ति विस्फुलिङ्गास्तस्मात् । तद्वदेवात्रापि ब्रह्मणः शेषजीवविनिर्गमः । गमनाद्यभावोदात्मनस्तद्रहितप्रदेशाभावान्नैतत् सङ्गतम् । अग्नेहि न सर्वव्यापकत्वम् , तथा च तस्यावयवाः स्युर्भिन्नाः । न चैवमत्र । तथा नाग्नेः स्वाभाव्येन स्फुलिङ्गोत्पत्तिः, किन्तु दाह्यवस्तुवैचित्र्योत्पादिता, अन्यथा लोहाद्यग्नेरपि भवेत् सा । किञ्च नामांशत्वं भवेदसम्बद्धत्वे सति, लोकविरुद्धत्वं चतत् , तन्निर्गममात्रेण चांशत्वे घटमृदिव पृथिव्याः, कः किमाह ?-जीवस्योत्पत्तिः तावदभ्युपगता भवतीतरस्येश्वरत्वात् , न्यूनता च ब्रह्मणोऽवयवापगमात् क्रमेण वस्त्रस्यैव तन्त्वपगमे । किञ्च-एकद्रव्यत्वं यद् ब्रह्मणोऽभिमन्यते भूयोवयवबद्धत्वं प्रतिनियतावयवबद्धत्तं सर्वावयवबद्धत्वं वा ?। आये, निर्गमे अंशानां स्पष्टैवानेकद्रव्यता, अंशस्यापि गुणादिमत्त्वेन द्रव्यत्वानपायात् । नहि अग्निकणो न द्रव्यं । प्रतिनियतावयवत्वेऽपि निर्गतानां तावदादित एव भिन्नद्रव्यतेति कथङ्कारमञ्चति घटाकोटिमेतत् । सर्वावयवसम्बद्धत्वे च स्फुटं दृष्टान्तवैषम्यम् , भिन्नत्वात् स्फुलिङ्गानामग्नेः। सत्यपि For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy