________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
लोकविंशिका
च भिन्नत्वे चेद् अंशत्वं, लोकबाधः स्पष्ट एव । लोके हि सत्येव सम्बन्धे अंशांशिभावः, न व्यतिरिक्तत्वे । अत एव च 'एगो काओ दुहा जाओ' इत्यादि पठ्यते । किञ्च-सम्बद्धत्वे अंशानां कथं न सुखदुःखोद्भवप्रसङ्गो ब्रह्मणः, अविद्यारहितत्वाञ्चेत्, तदसङ्गतम् , अंशस्य सम्बद्धवत्त्वात् । नहि शरीरैकदेशे जायमाना नान्यत्र वेदना । किश्च-कथं शुद्धब्रह्मणः अंशाः सङ्गता अविद्यया ?, शुद्धेषु च कथं 'न च पुनरावर्तते' इति योग्यम् । कर्मापरनामाविद्यासम्बन्धे कथं च अंशस्य भवति शरीरव्यापिता, मनोऽणुपक्षोदीरितदोषाणां वनलेपायमानत्वात् । हरिचन्दनदृष्टान्तोऽपि विप्रतारकताज्ञापकः , यतो नहि पुद्गलानामप्रारे भवेत्तथा शैत्यम् , न चानवयवः स । दीपदृष्टान्तोऽपि प्रत्युक्त एव । अनेन तेजःपुद्गलानां तत्र प्रसरणदर्शनान्न चास्यांशत्वात् प्रसरो, ज्ञानं चेत् तस्य प्रसरति शरीरे, तदप्यसत्यं ज्ञानस्यांशाविनाभावित्वान्न प्रसरो युक्तः । नहि गुणो गुणिनं विहायाऽवतिष्ठते कचिद्, गुणगुणित्वलोपप्रसङ्गात् । कथं च ब्रह्मणोऽविद्यारहितत्वेऽपि इतरांशानां तत्सहितत्वान्न भवतीतरेतरसुखदुःखोपभोगः ?, तथाभावेऽपि ब्रह्मण इतरेषां चांशांशिवाभ्युपगमो न मोहमतिवृत्य ख्यापयति भावुकतां भद्रस्य ।
ननु यथा अग्निकणो भिन्नोऽग्नेः स्वप्रकाशमात्रव्यक्तोऽप्यंश इति सुवर्णस्य वांश इति भिन्नत्वेऽपि, तथाऽत्रापि किं न भवेदिति चेत् । सत्यम् , स्यात् परं सामान्यापेक्षमेवैतत्, न तु विशेषापेक्षम् । अत्र तु ब्रह्मण इति विशेषेण निर्देशः । चूतनिम्बकदल्यादीनां वनस्पतिरिव जीवसामान्यस्याऽस्तु इयमाख्येति चेद् । जीव चिरं, परं नैवमंशकल्पना युक्ताऽत्र, सामान्यस्य निरवयवत्वात् । सांशता हि
For Private And Personal Use Only