Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 141
________________ ૧૨૧ જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા 138. सांख्यतत्त्वकौमुदी - 23 139. सांख्यतत्त्वकौमुदी - 27 140. चक्षुरादीनां मनोऽधिष्ठितानामेव स्वविषयेषु प्रवृत्तेः । सां.त.को. 27 । एतच्च "अन्यत्रमना अभूवं नाश्रौषम्" इत्यादिश्रुतिसिद्धाद् चक्षुरादीनां मन:संयोगं विना व्यापाराक्षमत्वादनुमीयते । सां.प्र.भा. 2.27 141. उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धस्तमोऽभिभवे. सति यः सत्त्वसमुद्रेक: सोऽध्यवसाय इति (बुद्धि-)वृत्तिरिति ज्ञानमिति चाख्यायते। सां.त.को. 5 । अध्ववसायो बुद्धरसाधारणो व्यापारः । सां.त.कौ. 23। 142. सां.का. 35 143. अध्यवसायो बुद्धिः । सां. का. 23 144. युगपच्चतुष्टयस्य इति।दृष्टे यथा - यदा सन्तमसाऽन्धकारे विद्युत्सम्पातमात्राद् व्याघ्रमभिमुखमतिसन्निहितं पश्यति तदा. खल्वस्याऽऽलोचन .सङ्कल्पाभिमानाध्यवसाया युगपदेव, प्रादुर्भवन्ति यतस्तत उत्प्लुत्य तत्स्थानादेकपदेऽपसरति । क्रमशश्च यदा मन्दालोके प्रथमं तावद् वस्तुमात्रं सम्मुग्धमालोचयति, अथ प्रणिहि तमनाः कर्णान्ताकृष्ट सशरशिञ्जितमण्डलीकृतकोदण्डः प्रचण्डत: पाटच्चरोऽयमिति निश्चिनोति, अथ च"मां प्रत्येति' इत्यभिमन्यते, अथाध्यवस्यति "अपसरामीतः स्थानात्" इति । परोक्षे त्वन्तःकरणत्रयस्य बाह्येन्द्रियवर्ज वृत्तिरित्याह - "अदृष्टे त्रयस्य तत्पूर्विका" । अन्त:करणस्य युगपत् क्रमेण च वृत्तिर्दृष्टपूर्विकेति। सां.त. कौ. 30 145. क्रमशश्च तस्य निर्दिष्टा ।तस्येति चतुष्टयमपि सम्बध्यते।चशब्दोऽवधारणार्थः। क्रमश एवेत्यर्थः । क्रमश एव हि बाह्यान्त:करणवृत्त्योरेकार्थनिपातः । दृष्टे तथाऽप्यदृष्टे क्रमशः एव चतुष्टयस्य वृत्तिः । त्रयस्य तत्पूर्विका वृत्तिः। न तावद् बुद्ध्यहङ्कारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्त:करणानुपपत्तिप्रसङ्गा त् , श्रोत्रादिवैयर्थ्य प्रसङ्गात् , द्वारिद्वारभावव्याघाताच्च। तस्मात् पूर्व श्रोत्रादीनामर्थसम्बन्धोऽस्ति । मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् । पश्चात्तु तवृत्युपनिपातादन्तःकरणस्येत्यस्ति क्रमोऽत्रापि । तत्र युदुक्तम् "मेघस्तनितादिषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिः" इत्येतदयुक्तम् । अस्य दृष्टे वर्तमाने युगपवृत्तिः पूर्वाचार्यैर्निर्दिष्टा, आचार्येण तु क्रमेणेत्यर्थः । अदृष्टेऽतीतादावपि क्रमश्च क्रमणैव, यतस्त्रयान्त:करणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः । यदा

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222