________________
૧૨૧ જૈનદર્શન અને સાંખ્યયોગમાં જ્ઞાનદર્શનવિચારણા 138. सांख्यतत्त्वकौमुदी - 23 139. सांख्यतत्त्वकौमुदी - 27 140. चक्षुरादीनां मनोऽधिष्ठितानामेव स्वविषयेषु प्रवृत्तेः । सां.त.को. 27 ।
एतच्च "अन्यत्रमना अभूवं नाश्रौषम्" इत्यादिश्रुतिसिद्धाद् चक्षुरादीनां
मन:संयोगं विना व्यापाराक्षमत्वादनुमीयते । सां.प्र.भा. 2.27 141. उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धस्तमोऽभिभवे. सति यः
सत्त्वसमुद्रेक: सोऽध्यवसाय इति (बुद्धि-)वृत्तिरिति ज्ञानमिति चाख्यायते।
सां.त.को. 5 । अध्ववसायो बुद्धरसाधारणो व्यापारः । सां.त.कौ. 23। 142. सां.का. 35 143. अध्यवसायो बुद्धिः । सां. का. 23 144. युगपच्चतुष्टयस्य इति।दृष्टे यथा - यदा सन्तमसाऽन्धकारे विद्युत्सम्पातमात्राद्
व्याघ्रमभिमुखमतिसन्निहितं पश्यति तदा. खल्वस्याऽऽलोचन .सङ्कल्पाभिमानाध्यवसाया युगपदेव, प्रादुर्भवन्ति यतस्तत उत्प्लुत्य तत्स्थानादेकपदेऽपसरति । क्रमशश्च यदा मन्दालोके प्रथमं तावद् वस्तुमात्रं सम्मुग्धमालोचयति, अथ प्रणिहि तमनाः कर्णान्ताकृष्ट सशरशिञ्जितमण्डलीकृतकोदण्डः प्रचण्डत: पाटच्चरोऽयमिति निश्चिनोति, अथ च"मां प्रत्येति' इत्यभिमन्यते, अथाध्यवस्यति "अपसरामीतः स्थानात्" इति । परोक्षे त्वन्तःकरणत्रयस्य बाह्येन्द्रियवर्ज वृत्तिरित्याह - "अदृष्टे त्रयस्य तत्पूर्विका" । अन्त:करणस्य युगपत् क्रमेण च वृत्तिर्दृष्टपूर्विकेति।
सां.त. कौ. 30 145. क्रमशश्च तस्य निर्दिष्टा ।तस्येति चतुष्टयमपि सम्बध्यते।चशब्दोऽवधारणार्थः।
क्रमश एवेत्यर्थः । क्रमश एव हि बाह्यान्त:करणवृत्त्योरेकार्थनिपातः । दृष्टे तथाऽप्यदृष्टे क्रमशः एव चतुष्टयस्य वृत्तिः । त्रयस्य तत्पूर्विका वृत्तिः। न तावद् बुद्ध्यहङ्कारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्त:करणानुपपत्तिप्रसङ्गा त् , श्रोत्रादिवैयर्थ्य प्रसङ्गात् , द्वारिद्वारभावव्याघाताच्च। तस्मात् पूर्व श्रोत्रादीनामर्थसम्बन्धोऽस्ति । मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् । पश्चात्तु तवृत्युपनिपातादन्तःकरणस्येत्यस्ति क्रमोऽत्रापि । तत्र युदुक्तम् "मेघस्तनितादिषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिः" इत्येतदयुक्तम् । अस्य दृष्टे वर्तमाने युगपवृत्तिः पूर्वाचार्यैर्निर्दिष्टा, आचार्येण तु क्रमेणेत्यर्थः । अदृष्टेऽतीतादावपि क्रमश्च क्रमणैव, यतस्त्रयान्त:करणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः । यदा