Book Title: Jain Darshan ane Sankhya Yogma Gyan Darshan Vicharna
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 184
________________ .. हैनशन भने सध्ययोगमा श्रद्धा३५ र्शन- १६४ . .ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति । तत्त्वार्थभाष्य 10.1 तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तत्त्वार्थभाष्य 1.2 दर्शनमिति दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, एतत् सम्यग्दर्शनम्। तत्त्वार्थभाष्य 1.1 Studies in Jaina Philosophy, p. 148. सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । जुओ टिप्पण 61 कारणभेदस्तावदयम् यतःसम्यग्दर्शनस्य त्रितयं कारणं समुत्पत्तौ, क्षयोपशमः क्षय: उपशमश्चेति । ज्ञानस्य तु क्षयः क्षयोपशमो वा, यदि च न तयोर्भेदः किमिति दर्शनस्य त्रिविधं कारणं इतरस्य द्विविधम् ? टीका 1.1 ... तथास्वभावभेदोऽप्यस्ति, यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रमुपपादि "तदेव सत्यं निःशङ्क यज्जिनैः प्रवेदितमुपलब्धं चेति । टीका 1.1 तथा विषयभेदोऽप्यस्ति, सर्वद्रव्यभावविषया रुचिः सम्यक्तवं "सव्वगयं सम्मतं" इति वचनात्, श्रुतज्ञानं तु सकलद्रव्यगोचरं कतिपयपर्यायावलम्बि चेत्येवं किल पारमार्थिकं भेदं पश्यद्भिर्भाष्यं व्याख्यातम् । टीका 1.1 .. मतिज्ञानस्यैव रुचिरूपो योऽपायांशस्तत् सम्यग्दर्शनम्, ज्ञानादृतेऽन्यत् सम्यग्दर्शनं न समस्ति । टीका 1.1 कारणादिभेदस्त्वन्यथा व्याख्यायते, योऽसावुपशमोऽनन्तानुबन्ध्यादीनां स तस्य सम्यग्दर्शनस्योत्पत्तौ निमित्तं भवति, यथा केवलज्ञानस्योत्पत्तौ मोहनीयक्षयः, न पुनस्तदेव मोहनीयं केवलस्यावरणमिति शक्यमभ्युपगन्तुं, निमित्तं तु मोहनीयक्षयः तेनाक्षीणेन केवलस्यानुत्पत्तेः, एवमिहापि ॥ यावदसावनन्तानुबन्ध्यादीनामुपशमो न भवति न तावत् सम्यग्दर्शनपर्यायस्याविर्भावः, न पुनस्तदेवानन्तानुबन्ध्याद्यावरणं सम्यग्दर्शनस्याकिं पुनरावरणमिति चेत्, ज्ञानावरणमेव,तावच्चेदं क्षयोपशमं न प्रतिपद्यते यावदनन्तानुबन्ध्यादीनां नोपशमः समजनीति । अनन्तानुबन्ध्याद्युपशमे सति तंदुपजायत इत्युपशमसम्यग्दर्शनं भण्यते, स्वावरणक्षयोपशममङ्गीकृत्य क्षयोपशमजमेतदुच्यते, तस्मात् परत उपशमव्यपदेशो न स्वावरणापेक्षया इति । टीका 1.1 तथा स्वभावभेदः पूर्वपक्षवादिना योऽभ्यधायि तत्राप्येवं पर्यनुयोगः कर्तव्यः - कोऽयमभिलाषो रुचितत्त्वलक्षणोऽन्यो मत्याद्यपायांशं विरहय्येति । टीका 1.1

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222