________________
.. हैनशन भने सध्ययोगमा श्रद्धा३५ र्शन- १६४ . .ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति । तत्त्वार्थभाष्य 10.1 तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तत्त्वार्थभाष्य 1.2 दर्शनमिति दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, एतत् सम्यग्दर्शनम्। तत्त्वार्थभाष्य 1.1 Studies in Jaina Philosophy, p. 148. सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । जुओ टिप्पण 61 कारणभेदस्तावदयम् यतःसम्यग्दर्शनस्य त्रितयं कारणं समुत्पत्तौ, क्षयोपशमः क्षय: उपशमश्चेति । ज्ञानस्य तु क्षयः क्षयोपशमो वा, यदि च न तयोर्भेदः
किमिति दर्शनस्य त्रिविधं कारणं इतरस्य द्विविधम् ? टीका 1.1 ... तथास्वभावभेदोऽप्यस्ति, यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रमुपपादि
"तदेव सत्यं निःशङ्क यज्जिनैः प्रवेदितमुपलब्धं चेति । टीका 1.1 तथा विषयभेदोऽप्यस्ति, सर्वद्रव्यभावविषया रुचिः सम्यक्तवं "सव्वगयं सम्मतं" इति वचनात्, श्रुतज्ञानं तु सकलद्रव्यगोचरं कतिपयपर्यायावलम्बि
चेत्येवं किल पारमार्थिकं भेदं पश्यद्भिर्भाष्यं व्याख्यातम् । टीका 1.1 .. मतिज्ञानस्यैव रुचिरूपो योऽपायांशस्तत् सम्यग्दर्शनम्, ज्ञानादृतेऽन्यत्
सम्यग्दर्शनं न समस्ति । टीका 1.1 कारणादिभेदस्त्वन्यथा व्याख्यायते, योऽसावुपशमोऽनन्तानुबन्ध्यादीनां स तस्य सम्यग्दर्शनस्योत्पत्तौ निमित्तं भवति, यथा केवलज्ञानस्योत्पत्तौ मोहनीयक्षयः, न पुनस्तदेव मोहनीयं केवलस्यावरणमिति शक्यमभ्युपगन्तुं, निमित्तं तु मोहनीयक्षयः तेनाक्षीणेन केवलस्यानुत्पत्तेः, एवमिहापि ॥ यावदसावनन्तानुबन्ध्यादीनामुपशमो न भवति न तावत् सम्यग्दर्शनपर्यायस्याविर्भावः, न पुनस्तदेवानन्तानुबन्ध्याद्यावरणं सम्यग्दर्शनस्याकिं पुनरावरणमिति चेत्, ज्ञानावरणमेव,तावच्चेदं क्षयोपशमं न प्रतिपद्यते यावदनन्तानुबन्ध्यादीनां नोपशमः समजनीति । अनन्तानुबन्ध्याद्युपशमे सति तंदुपजायत इत्युपशमसम्यग्दर्शनं भण्यते, स्वावरणक्षयोपशममङ्गीकृत्य क्षयोपशमजमेतदुच्यते, तस्मात् परत उपशमव्यपदेशो न स्वावरणापेक्षया इति । टीका 1.1 तथा स्वभावभेदः पूर्वपक्षवादिना योऽभ्यधायि तत्राप्येवं पर्यनुयोगः कर्तव्यः - कोऽयमभिलाषो रुचितत्त्वलक्षणोऽन्यो मत्याद्यपायांशं विरहय्येति । टीका 1.1