________________
गर्भबाधा १४ । बालवत्साया भूमौ बालस्य मोचने माजा(जोर्यादिकृतोपद्रवादिदोषाः १५ । कण्डयन्त्या ग्रहणे बीजसङ्कटादिदोषाः १६ । पेषयन्ती च शिलायां गोधूमादीन् तस्याश्चोत्तिष्ठन्त्या हस्तधावनादयो दोषाः १७॥ कर्तयन्त्या निष्ठीवनलिप्सौ हस्तौ तत्प्रक्षालने च पुरःकर्मादिदोषाः।१८। एवं पिञ्जयन्त्याः १९। एतेभ्योऽव्यक्तादिपिञ्जयन्तीपर्यन्तेभ्यो भिक्षा न ग्राह्या । अत्रापवादमाह-'भइत्ति एतेभ्यो ग्रहणे विकल्पना कर्तव्या, नत्वेकान्तेन निषेधः, 'दगमाइणो दोस'त्ति एतेषु दातृषु आचमनोदकप्रोज्झनादिदोषाः स्युस्ते च भाविता एव, अथ भजना यथा बालेन भिक्षामानं दीयमानं गृहपतिसंदिष्टेन वा तत्प्रत्यक्षं प्रभूतमपि गृह्यते इत्यव्यक्ते यतना १ अप्रभावप्येवं २ स्थविरेण च परेण धृतेन दीयमानं गृह्यते ३ अप्रतिसेविनश्च पण्डकाद्गृह्यते ४ मत्तश्च | यदि श्राद्धो भवति अल्पसागारिकश्च तदा तद्धस्ताद्गृह्यते ५ क्षिप्तचित्तदीप्तयक्षाविष्टा अपि यदि साधुवासनावन्तस्तदा तेभ्योऽपि ग्राह्यं ८ करच्छिन्नादल्पसागारिकाद्ह्यते ९ चरणच्छिन्नात्तूपविष्टादल्पसागारिकाच गृह्यते १० अन्येनाकृष्टाचान्धाद्गृह्यते ११ परिष्वष्कितुं शक्यान्निगडिताद्गृह्यते १२ अगलत्कायाच कुष्ठिनोऽपि गृह्यते १३ गुर्विण्याश्च मासाष्टकं यावत्स्थविरकल्पिका गृह्णन्ति, न तु वेलामासादूर्द्ध, जिनकल्पिकादयस्तु निरपवादा गर्भोत्पत्तेरेवारभ्य न गृह्णन्ति १४ तथा स्थविरकल्पिकाः स्तनोपजीविबा-1 लयुक्तबालवत्साया हस्तान्न गृह्णन्ति, जिनकल्पिकादयस्तु यावद्वालस्तावहालवत्सां परिहरन्ति १५ कण्डयन्त्याश्च हस्ते मुशलमुत्क्षिप्तं भवति, अत्रान्तरे साधुरागतोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा ददत्या गृह्यते
Jain Education inte
For Private & Personel Use Only
wि .jainelibrary.org