Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सर्व सम्यगवगच्छति, एकत्वभावनया चात्मानं भावयन् गुर्वादिषु दर्शनालापादि पूर्व परिहरति, ततो बादरम-18 मत्वे मूलत एव विच्छिन्ने देहोपध्यादिभ्योऽप्यात्मानं भिन्नमवलोकयन् सर्वथा तेषु निरभिष्वङ्गो भवति, बल-1 भावनायां शारीरं मानसं चेति द्विविधं बलं, तत्र शारीरं शेषजनभ्योऽतिशायिकमेष्टव्यं, तदभावेऽपि धृति-10 बलेन तथाऽऽत्मानं भावयति यथा महद्भिरपि परीषहोपसगर्न बाध्यते, एताभिर्भावनाभिर्भावितात्मा जिन-18 कल्पप्रतिरूपो गच्छ एव प्रतिवसन्नुपध्याहारविषये द्विविधे परिकर्मणि प्रवर्तते, तत्र यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, यदि च सा नास्ति तदा प्रतिग्रहधारित्वपरिकर्मणि यथायोगं परिवर्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्लचणकादिकं मितं प्रान्तं रूक्षं चोद्धतादिपञ्चानां पिण्डैष-12
णानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति । एवं विधिना-1 Ssत्मानं परिकर्मयित्वा सकलमपि संघं मीलयित्वा क्षमयित्वा च सर्वसाधून दत्त्वा च निजपदे व्यवस्थापितसू
रेरनुशास्ति तीर्थकृतः समीपे तदभावे गणधरस्य तदभावे चतुर्दशपूर्वधरस्य तस्याप्यभावे दशपूर्वधरस्य तदभावे तु वटाशोकादितरूणामधो महाविभूत्या जिनकल्पं प्रतिपद्यते, सामाचार्यश्चास्य आवदियकीनषेधि-18
कीमिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च भवन्ति, अन्ये वाहुः-आवश्यिकीनषेधिकीगृहस्थोपसंप&ाल्लक्षणास्तिस्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवात्, अत्र प्रागुस्तैः श्रुतादिभिः सप्तविंशत्या द्वाररस्य मर्यादा प्रदश्यते, तद्यथा-श्रुतसंपच्चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र
nin Education inte
For Private & Personel Use Only
X
w.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398