Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ साम्प्रतं सकलशास्त्रार्थपरिसमातिमुपदर्शयन्नाहइत्येष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः। ततः कार्नेन धर्मस्य, सिद्धिमाप निरूपणम् ॥१५९॥ 'इति' पूर्वोक्तप्रकारेण 'अत्र' शास्त्रे 'एष' प्रत्यक्षः द्विविधः-सापेक्षनिरपेक्षभेदवान् न पुनरेक एवेत्यपिशब्दार्थः । 'यतिधर्मः' उक्तलक्षणो 'निरूपितो' निरूपणविषयीकृतः 'ततो' द्विविधयतिधर्मनिरूपणाद्विविधगृ- हिधर्मस्य च प्रागेव निरूपणात् 'कात्स्न्येन' सर्वप्रकारेण धर्मस्य 'निरूपणं' शास्त्रादौ प्रतिज्ञातं 'सिद्धिमाप संपूर्णतां प्राप ॥ १५९॥ इति श्रीधर्मसंग्रहप्रकरणं सूत्रतो वृत्तितश्च समाप्तम् । प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम् । चतुर्दश सहस्राणि, षट्शती च द्विकोत्तरा ॥१॥१४६०२॥ Jain Education For Private & Personel Use Only Now.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398