Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 392
________________ धर्मसंग्रहे रहिताः शेषा उद्धताल्पलेपोहीताप्रगृहीतोज्झितधर्मालक्षणाः पश्चैषणास्ताभिर्भिक्षा-भिक्षणं, अयं भाव:-उद्धअधिकारःतादिपञ्चैषणानां मध्यादन्यतरैषणाद्वयाभिग्रहणाहारं गृह्णाति, तत्राप्येकया भक्तमपरया पानकमिति, एवं | विधा भिक्षा कुत्र भवतीत्याह-षभिर्भागैः' षट्संख्यैरंशैः 'कल्पिते' बुद्ध्या पृथक्कते 'क्षेत्रे' वाश्रितग्रामादौ । षद्भिर्दिनः क्षेत्रषवागान् भिक्षार्थमटतीति भावः, तथा 'नियते' तृतीयपौरुषीलक्षणे 'काले' समये 'गमनं' संच-IS ॥१८॥ रणं यथोक्तम्-"भिक्खापंथो अ तइयाइ"त्ति तथा तुर्ये याम-दिवसस्य चतुर्थे प्रहरे तुशब्द: विशेषणार्थः, अवस्थितिः-गमननिवृत्तिरिति ॥ १५७ ॥ अथैतद्धर्मनिरूपणमुपसंहरन्नाह संक्षेपान्निरपेक्षाणां, यतीनां धर्म ईरितः । अत्युग्रकर्मदहनो, गहनोग्रविहारतः ॥१५८॥ 'निरपेक्षाणां यतीनां जिनकल्पिकादीनां 'धर्मः' अल्पोपधितादिरूपः' 'संक्षेपा'दिति लेशमात्रेण 'ईरितः' प्रोक्तः, कीदृशो धर्म: ?-'अत्युग्रकर्मदहनः' अत्युग्रं-कर्कशवेदनीयं यत्कर्म तस्य दहन:-अपनायकः, कस्माद्धेतोरित्याह-गहनोग्रविहारतः' गहनो-दुरधिगम उग्र-उत्कृष्टो विहारो-विहरणं तस्मात् ॥१५८॥ IS|॥१८॥ इति परमगुरुभट्टारकश्रीविजयानन्दमूरिशिष्यमुख्यपण्डितश्रीशांतिविजयगणिचरणसेविमहोपाध्यायश्रीमान विजयगणि विरचितायां खोपज्ञधर्मसंग्रहवृत्तौ निरपेक्षयतिव्यावर्णनो नाम चतुर्थोऽधिकारः । cिesteeeeeeeeeeeeeeees Jain Education in For Private & Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398