Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 1
________________ म..म.१ विजयन्ते सदा विश्वे गणेशाः सूत्रकारकाः ॥ समाददतु भव्या भाविभव्या पूर्वमुनीश्वरगुम्फितसेतं गुम्फमनूनधर्मसंग्रहणक्रियया यथार्थाभिधानं धर्मसंग्रहं संस्थाकार्यवाहकद्वारा श्रेष्ठ| देव चन्द्रलाल भाइनामकभाण्डागाराधिपेनोपदीक्रियमाणं करकमलेऽत्यल्पतमेन पण्येन, समादानाच्चार्वागू अवश्यमेव विचारणीयमेतत् यदुत सान्वर्थाभिधानोऽप्ययं प्रन्थो निखिलानामास्तिकदर्शनानां धर्मार्थित्वात् कतमेन धर्मेण संग्रहोऽत्र ?, जैनेन चेत् तत्रापि अनगारेतरादिभेदैरनेकथा भेदभाजि तस्मिन् केन प्रकारेणात्र संग्रहः के च कारकाः कदा च भूमण्डलं मण्डयामासुः पवित्रपत्कमलैरिति, प्रवृत्तायां चैवं विचारश्रेणौ यावन्नोन्मूलमियूयात्तद्विषया शङ्काततिर्न तावत् निःशङ्कां प्रवृत्तिमातन्यात् कृतीति विचार्यैव श्रीमद्भिर्मानविजयोपाध्यायैः प्रथमतः | सर्वेषामगायनगाराणां धर्माविर्भावनाय सामान्येनैवाभिधा चक्रे धर्मसंग्रह इति, तथाच वाचकपाठकश्रोतॄणां सुखेनावयमो भविष्यति निर्बाधं यदुताद्यावधिमुद्रिताये प्रन्था एतद्भाण्डागार कार्यवाह कैरन्याभिश्च संस्थाभिः परं तेषु सर्वेषु प्रन्थोऽयमेव मूर्धाभिषिक्तो यतोऽगारानगारोभयधर्मप्रतिपादनपरताऽस्य, अन्यच्च विधातारोऽस्य यतोऽर्वाकालीनास्ततः परःशतानां प्रन्थानां प्रन्थकाराणां च हार्दमवतारयितुमत्रालम्भूष्णव इति नायं कदाचनापि अर्वाकालीनजाततयाऽवज्ञास्पदं यायात्, प्रन्थानां ग्रन्थकाराणां च येषां हार्दमवातारि तत्तेषामभिधानावलिनिरीक्षणतः स्वयमेव समेष्यति दृष्टिपथे पटुप्रज्ञानां, अन्यच्च प्रस्तुतप्रन्थसौधसूत्रणसूत्रधारसन्निभा महोपाध्याया न केवलं स्वमनीषोज्जृम्भितमाविर्भावयामासुः किन्तु काशीविबुधविजयावाप्तयथार्थाभिधानान् श्रीयशोविजयमहोपाध्यायान् प्रति शोधनायापि समर्पयामासुर्यथा प्राकू For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 398