Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ ३ ऐदयुगीनाः साध्वाभासाः श्रावकामासाश्च निश्चयं व्यवहारं च व्याहृत्य यथारुचि क्रियालोपं ज्ञानलोपं च स्वप्रमादाद्यपहवाय व्यङ्गयेन ध्वनिना व्याख्यान्ति विमुग्धानां पुरतस्तेषां द्वयेषामप्यवलोकनीयं निश्चयव्यवहारधर्मस्वरूपं यथायथं श्रीधर्मसंग्रहणीश्रीउपदेशपदादिशागतैरभिप्रायैः निवेदितं प्रवचनवेदिमिः ( पृष्ठे १४-१५) ४ श्रीमजिनभद्रक्षमाश्रमणश्रीमत्सिद्धसेनदिवाकरयोः परस्परं विसंवदतोः कथमिव नाभिनिवेशः कथमिव चान्येषां स इत्युपपा|दितमुपपत्तिनिपुणैः (पृष्ठे ४०) ५ नानुमन्वते तुर्ये गुणस्थाने ये विरतिक्रियां तेषामपि मनः समाहितं युक्तिपुरस्सरं तत्र तस्याः करणीयत्वेन, क्रियाया गुणस्थानके गुणाहत्वात् (पृष्ठे ४९) ६ ये केचित् श्रावकाभासाः भूत्वोपदेशकाः आचारशून्याः अनन्तकायाद्यभक्ष्यमाहृत्य श्रद्धालूंश्चापि च्यावयन्ति धर्मात् तेषां हितायैवाख्यातं ख्यातकीर्तिभिर्यदुत प्रातिवेश्मिकगृहराद्धमचित्तमपि वर्ण्यमेवानन्तकायिकमिति पूज्यपक्षः ___ ७ सामायिकस्य विधानं प्रतिपादयद्भिरावश्यकपञ्चाशकप्रभृत्यनेकग्रन्थानुगतमेवानूदितं, दृष्ट्वा च तत् केचित् पूर्वापरालोचनाहीनाः | मिथ्यापोषं पुष्णन्ति स्वमतं तैः परं विचारणीयमेतत् यदुतालोचनाद्यनुगमे तत् सामायिकविधानं तेन पश्चान्निर्दिश्यमानेर्यापथिकी न सामायिकप्रतिबद्धा किन्तु वन्दनादिप्रतिबद्धा, सामायिकं तु विधायैवेर्या विधे, यतः श्रीमदुत्तराध्ययनेषु एकोनत्रिंशत्तमेऽध्ययने “सामायिक च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्यास्ते च तत्त्वतस्तीर्थकृत एवे”यादि, अत्र स्पष्टमेवाविर्भावितं श्रीशान्तिसूरिभिः सामायिक प्रतिपद्य-| Jain Education Intel For Private & Personel Use Only N ainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 398