________________
तत्राल्पा-स्थविरकल्पा
नेवृत्तौ चोपदेशकत्वेन यस्तत्ता, उपधिप्रमाणं च
2999090SasasASSSSSSSS
'सच' निरपेक्षयतिधर्मोऽल्पोपधितादिश्लोकत्रयेणोपदय॑मानो भवतीतिसम्बन्धः, तत्राल्प:-स्थविरकल्पापेक्षया न्यून उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्ता, उपधिप्रमाणं च प्राग्निरूपितमेव, तथा सूत्रम्-आगमः स एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता, तथा विहरतीत्येवंशीलो विहारी तस्य भावस्तत्ता, उग्रा ग्रामैकरात्रादिरूपेणोत्कृष्टा विहारिता विहारः, किमुक्तं भवति?-यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपन्नो भवति तदा ऋतुबद्धे काले ग्रामेऽज्ञातः सन् स एकरात्रिं द्विरात्रं वा वसति, यथोक्तम्-"नो एगरायवासी एगं च दुगं च अन्नाए" जिनकल्पिकयथालन्दिकशुद्धपरिहारकास्तु ज्ञाता अज्ञाताश्च मासमिति । तथाऽपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः-परिहारः, नहि निरपेक्षो यतिः सापेक्षयतिरिवोत्सर्गासिद्धावपवादमपि समालम्ब्याल्पं दोषं बहुगुणं च कार्यमारभते, किन्तूत्सर्गप्राप्तं केवलगुणमयमेवेति । अत एव शरीरे-देहेऽप्रतिकर्मता, तथाविधग्लानाद्यवस्थायामपि प्रतीकारराहित्यं, तथा देशनायां-धर्मकथारूपायां धर्म श्रोतुमुपस्थितेष्वपि तथाविधप्राणिष्वप्रबन्धोऽभूरिभावो, निरपेक्षयतिर्हि एषणादिविषयं मुक्त्वा न केनापि साई जल्पति, 'एगवयणं दुवयण'मिति वचनप्रामाण्यात्, तथा सर्वदा-सर्वकालं दिवा रात्री चेत्यर्थः अप्रमत्तता-निद्रादिप्रमादपरिहारः तथा बाहुल्यात्-प्रायेण ऊर्ध्वस्थानं-कायोत्सर्गेऽवस्थानं, कदाचिदुपविशति जिनकल्पिकादिस्तदा नियमादुत्कटुक एव, नतु निषद्यायामौपग्रहिकोपकरणस्यैवाभावात् , तथा शुभध्याने धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्ता, तथा संसृष्टाऽसंसृष्टलक्षणेषणाद्वय
गवयणं दुवयण मिश्वप्रबन्धोऽभूरिभावो, निरहित्यू, तथा देशनाया
Jan Education
For Private Personal use only
How.jainelibrary.org