Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ धर्मसंग्रहे अधिकारः ३ ॥१८९॥ अथ प्रशस्तिः । श्रीमद्वीरजिनेन्द्र पट्टपदवीसीमन्तिनीमण्डनं, प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः । येनाकब्बरराट् प्रबोध्य विहितो दुष्कर्मकर्त्ताऽप्यहो, धर्मोक्त्या त्रिदिवस्य केशिगणिनेवार्हः प्रदेशी नृपः ॥ १ ॥ अमलमलमकार्षीत्सद्गुरोस्तस्य पहुं, विजयिविजयसेनः सूरिरुग्रप्रतापः । महति सदसि शाहेर्वादिनो निष्प्रतापान्, || रविरिव निजगोभिस्तारकान् यद्बभूव (चकार ) ॥ २ ॥ विजयतिलकसूरिर्भूरिसूरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशप्रसृमर किरणैर्यो भव्यपद्मांश्चकार ॥ ३ ॥ तदीये पट्टेऽभूद्विजयिविजयानन्द सुगुरुर्यशखी तेजखी मधुरवचनः सौम्यवदनः । कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहितस्तपागच्छाधीशः सकलवसुधाधीशमहितः ॥ ४ ॥ जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः । प्रथितपृथुजयश्रीरुग्रपुण्यप्रभावः, कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥ ५ ॥ तदनु पट्टपतिविहितोऽधुना, विजयराजतपागणभूभुजा । विजयमान इति प्रथिताह्नयो, विजयतेऽतुलभाग्यनिधिः सुधीः ॥६॥ ( इतश्च ) विजयानन्दसूरीणां विनेया विनयान्विताः ॥ श्रीशान्तिविजयाह्वानाः, शोभन्ते पण्डितोत्तमाः ॥७॥ आजन्मादपि शीलसत्यमृदुताक्षान्त्यर्जवाद्या गुणा, भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि । प्रोत्साहाय गुणार्थिनां खगुरुभिर्व्यक्तीकृता भूतले, सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥ ८ ॥ तेषां विनेय Jain Education International For Private & Personal Use Only प्रशस्तिः ॥ १८९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398