Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहे अधिकारः
३
॥१५४॥
Jain Education Inte
वादरुचेर्वा ७ तथा मूलं महाव्रतानां मूलत आरोपणं, इदं चाकुया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते | मृषावादादत्तादान परिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति ८ । तथाऽवस्थाप्यत | इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यं, दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणं, तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तं स हि यदोत्थानाद्यपि कर्त्तुमशक्तस्तदाऽन्यान् प्रार्थयते - आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः खस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९ । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्वेवंशीलं पारांचिकं, तच्च खलिङ्गिनीनृपभार्यासेवन लिङ्गिराजवधादिमहापराधे कुलगणसङ्क्षेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृ|ष्टतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानन्तरं प्रत्राज्यते, नान्यथा १० । एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहिः स्थिताः सुविपुलं तपः कुर्वन्त आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराश्चिकं, एवं सामान्य साधूनामनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं । अनवस्थाप्यं चाशातनानवस्थाप्यप्रतिसेवनानवस्थाप्यभेदाद् द्विविधं तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्ष भवति, द्वितीयं तु हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति, उक्तं च- "तत्थ
For Private & Personal Use Only
विहारस्वरूपं
॥१५४॥
ww.jainelibrary.org

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398