SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१५४॥ Jain Education Inte वादरुचेर्वा ७ तथा मूलं महाव्रतानां मूलत आरोपणं, इदं चाकुया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते | मृषावादादत्तादान परिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति ८ । तथाऽवस्थाप्यत | इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यं, दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणं, तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तं स हि यदोत्थानाद्यपि कर्त्तुमशक्तस्तदाऽन्यान् प्रार्थयते - आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः खस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९ । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्वेवंशीलं पारांचिकं, तच्च खलिङ्गिनीनृपभार्यासेवन लिङ्गिराजवधादिमहापराधे कुलगणसङ्क्षेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृ|ष्टतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानन्तरं प्रत्राज्यते, नान्यथा १० । एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहिः स्थिताः सुविपुलं तपः कुर्वन्त आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराश्चिकं, एवं सामान्य साधूनामनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं । अनवस्थाप्यं चाशातनानवस्थाप्यप्रतिसेवनानवस्थाप्यभेदाद् द्विविधं तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्ष भवति, द्वितीयं तु हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति, उक्तं च- "तत्थ For Private & Personal Use Only विहारस्वरूपं ॥१५४॥ ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy