SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥१५४॥ Jain Education Inte वादरुचेर्वा ७ तथा मूलं महाव्रतानां मूलत आरोपणं, इदं चाकुया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते | मृषावादादत्तादान परिग्रहेषु चोत्कृष्टेषु प्रतिसेवितेषु आकुट्ट्या पुनः पुनः सेवितेषु वा भवति ८ । तथाऽवस्थाप्यत | इत्यवस्थाप्यं तन्निषेधादनवस्थाप्यं, दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणं, तपःकर्म चास्योत्थाननिषीदनादिकर्मकरणाशक्तिपर्यन्तं स हि यदोत्थानाद्यपि कर्त्तुमशक्तस्तदाऽन्यान् प्रार्थयते - आर्या ! उत्थातुमिच्छामीत्यादि, ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते, इदं च यष्टिमुष्ट्यादिभिः खस्य परस्य वा निरपेक्षघातकरणेनातिसंक्लिष्टाध्यवसायस्य भवति ९ । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्वेवंशीलं पारांचिकं, तच्च खलिङ्गिनीनृपभार्यासेवन लिङ्गिराजवधादिमहापराधे कुलगणसङ्क्षेभ्यो बहिष्करणं जघन्यतः षण्मासानुत्कृ|ष्टतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानन्तरं प्रत्राज्यते, नान्यथा १० । एतदधिकारिणश्चाव्यक्तलिङ्गधारिणो जिनकल्पिकप्रतिरूपाः क्षेत्राद्वहिः स्थिताः सुविपुलं तपः कुर्वन्त आचार्या एव, उपाध्यायानां तु दशमप्रायश्चित्तापत्तावपि अनवस्थाप्यमेव भवति, न तु पाराश्चिकं, एवं सामान्य साधूनामनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं । अनवस्थाप्यं चाशातनानवस्थाप्यप्रतिसेवनानवस्थाप्यभेदाद् द्विविधं तत्राद्यं तीर्थकरतद्वचनगणधराद्यधिक्षेपकरणे जघन्यतः षण्मासानुत्कृष्टतो वर्ष भवति, द्वितीयं तु हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यादिकरणे जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणीति, उक्तं च- "तत्थ For Private & Personal Use Only विहारस्वरूपं ॥१५४॥ ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy