________________
त्तसंभवात्, केवलिनश्च कृतकृत्यत्वेनालोचनाया अयोगात्, ननु यथासूत्रं प्रवर्त्तमानानामप्रमत्तयतीनामतिचार-19 रहितानामालोचना निष्फलेति चेत्सत्यं, परं केवलचेष्टानिमित्तानां सूक्ष्मप्रमादनिमित्तानां वा सूक्ष्माश्रवक्रियाणां संभवात्तेषां तच्छुद्धिनिमित्तमालोचना सफलैवेति १। तथाऽतीचाराभिमुख्यपरिहारेण प्रतीपंक्रमणमपसरणं प्रतिक्रमणं, मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन पुनरेवं न करिष्यामीति प्रत्याख्यानं, एतच समितिगुप्त्यादीनां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे गुरोः पुरतः आलोचनामन्तरेणापि मिथ्यादुकृतलक्षणं प्रायश्चित्तं क्रियते २ तथा मिश्रमालोचनप्रतिक्रमणरूपं, प्रागालोचनं पश्चाद्गुरुसंदिष्टेन प्रतिक्रमणं, इदं च शब्दादिविषयेषु रागादिकरणेन क्रियते, तत्रापि शब्दादिविषयेषु रागद्वेषयोर्या शङ्कायां सत्यां मिश्र, तन्निश्चये तु तपः प्रायश्चित्तमिति ३ । तथा विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः, अयं च सम्यगुपयुक्तेनापि गृहीतं पश्चात्तु अन्नाद्यशुद्धं ज्ञातं तदा कार्यः, उपलक्षणत्वात्क्षेत्रातिक्रान्तादावपि कार्यः ४। तथा व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वप्नदर्शननौसंतरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वक-18 कायवाङ्मनोव्यापारत्यागः ५। तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भ
वति तत्तद् ज्ञेयमासेवनीयं च, इदं च सचित्तपृथिव्यादिसंघटने निर्विकृतिकादि षण्मासान्तं भवति ६।छेद18|स्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं, तपोदुर्दमश्च विकृष्टतपःकरणसमर्थस्तपसा हा
गर्वितो भवति, यथा किं ममानेन प्रभूतेनापि तपसा? इति, अथवा तपःकरणासमर्थस्य ग्लानादेर्निष्कारणतोऽप-181
Jan Education in
For Private
Personal use only
Vilm.jainelibrary.org