________________
धर्मसंग्रहे अधिकारः
विहारस्वरूपं
॥१५३॥
दहावि पंचविहो । पढमसमओ १ अपढमो २ चरमा ३ चरमो ४ तहा सुहमो ५॥१॥” इति, तत्र भेदचतुष्क प्रकटार्थमेव, यः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानः स यथासूक्ष्मनिर्ग्रन्थ इति विवक्षया भेद एषामिति, क्षीणमोहाश्चैकसमये प्रवेशमाश्रित्योत्कर्षतोऽष्टोत्तरशतमिताः, जघन्यतश्चैकादयः; उपशान्तमोहास्तु चतुष्पश्चाशत् , जघन्यतश्चैकादय एव, नानासमयप्रविष्टानाश्रित्य चाद्याः शतपृथकमिता, द्वितीयास्तु संख्याताः प्राप्यन्ते इति । तथा क्षालितसकलघातिकर्ममलत्वात् लात इव स्नातः, स एव स्नातकः, सच सयोगी अयोगी चेति द्विविधः, तदुक्तम्-"सुहझाणजलविसुद्धो, कम्ममलाविक्खया सिणाओत्ति।दुविहो असो सजोगी, तथा अजोगी विणिहिट्टो॥१॥” इति । एषु च निर्ग्रन्थस्नातकपुलाका व्युच्छिन्ना, बकुशकुशीलाश्चातीर्थ भविष्यन्ति, यतः-"निग्गंथसिणायाणं, पुलायसहिआण तिण्ह वोच्छेओ। समणा बउसकुसीला, जा तित्थं ताव होहिंति ॥१॥” इति । इति प्रसङ्गप्राप्तं पञ्चनिन्धीखरूपं । अथ प्रायश्चित्तं पुनर्दशविधम्-आलोचनं १ प्रतिक्रमणं २ मिश्रं ३ विवेको ४ व्युत्सर्ग ५ स्तप ६ श्छेदो ७ मूल ८ मनवस्थाप्यता ९पारांचिक १० मिति, यदाह-"आलोअण पडिक्कमणे, मीस विवेगे तहा विउस्सग्गे। तवछेअमूलअणवट्ठया य पारंचिअंचेव ॥१॥" इति । तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनं, तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च, तत्वरूपं तु प्रागुक्तमेव । इयं चालोचना गोचरचरीविहारोच्चारभूम्यादिविषयेषु हस्तशतादूर्ध्व गमनागमनादिष्ववश्यकतव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेद्रष्टव्या, सातिचारस्य तुपरितनप्रायश्चि
॥१५३॥
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org