________________
Jain Education Inte
लोकेऽविज्ञातदोषः संवृतबकुशः ३, प्रकटकारी त्वसंवृतबकुशः ४, मूलोत्तरगुणाश्रितं वा संवृताऽसंवृतत्वं, नेत्रमलापनयनादि किञ्चित्प्रमादवान् सूक्ष्मबकुशः ५, एते च सामान्येन ऋद्धियशस्कामाः मानगौरवाश्रिता | अविविक्तपरिवाराइछेदयोग्यशबलचारित्रा अवगन्तव्याः, तत्राऽविविक्तोऽसंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजङ्घः तैलादिना विहितशरीरमृजः कर्त्तरिकाकल्पितकेशः स परिवारो येषां तेऽविविक्तपरिवारा इति । तथा कुशीलो मूलोत्तरविराधनात् संज्वलनकषायोदयाद्वा कुत्सितं शीलं - चारित्रमस्येति, स चासेवनाकषायकशीलभेदाद्विधा, तत्रासेवना संयमस्य विपरीताऽऽचरणा तया कुशील आसेवनाकुशीलः द्वितीयस्तु स्पष्टार्थ एव, द्विविधोऽपि ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् पञ्चविधो, यतः - " आसेवणाकसाए दुविहो कुसीलो दुहावि पंचविहो । नाणे दंसण चरणे, तवे अ अहहुमए चेव ॥ १ ॥” इति, तत्र ज्ञानदर्शनचारित्रतपां| स्युपजीवन् तत्तत्प्रतिसेवकः, अन्ये तु तपःस्थाने लिङ्गं पठन्ति, अयं तपखीत्यादिप्रशंसया तुष्टस्तु यथासूक्ष्मप्रतिसेवकः । एवं कषायकुशीलोऽपि पञ्चविधः, तत्र ज्ञानदर्शनतपांसि संज्वलनक्रोधाद्युपयुक्तो यः खखविषये व्यापारयति, तत्तत्कषायकुशील उच्यते, कस्यापि शापं प्रयच्छति यः स तु चारित्रकुशीलः, मनसा तु द्वेषादीन् कुर्वन् यथासूक्ष्मः कषायकुशीलः । तथा निर्गतो मोहनीयकर्मलक्षणात् ग्रन्थादिति निर्ग्रन्थः, स च द्विधा-उपशान्तमोहः क्षीणमोहश्चेति, द्विविधोऽपि पञ्चविधस्तद्यथा- प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थञ्चरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, यतः - "उवसामगो अ खवगो, दुहा निअंठो
For Private & Personal Use Only
w.jainelibrary.org