________________
धर्मसंग्रह || द्विधा भवति । तत्र लब्धिपुलाको देवेन्द्रसमृद्धको लब्धिविशेषयुक्तः, यदाह-“संघाइआण कजे, चुण्णेजा चक्क- निर्ग्रन्थअधिकारः वहिसेन्नमवि। जीऍलद्धीऍ जुओ, लद्धिपुलाओ मुणेअवो ॥१॥” अन्ये वाहुः-आसेवनातो यो ज्ञानपुलाकस्तस्ये- स्वरूपं
यमीदृशी लब्धिः स लब्धिपुलाको न तद्यतिरिक्तः कश्चिदपर इति । आसेवापुलाकस्तु ज्ञानदर्शनचारित्रलिङ्ग-1
सूक्ष्मपुलाकभेदात्पञ्चधा, तत्र स्खलितमिलितादिभिरतिचारैानमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाका, एवं ॥१५२॥
| कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाकः, यथोक्तलिङ्गाधिक-19 ग्रहणान्निष्कारणाद्वा लिङ्गपुलाकः, किञ्चित् प्रमादात् मनसाऽकल्पग्रहणाद्वा यथासूक्ष्मपुलाकः, अन्यत्र पुनरेवमुक्तम्-"अहासुहुमो अ एएसुं चेव चउसु वि जो थोवथोवं विराहे” इति । बकुशः शबलः कर्बुर इति पर्या-1 याः, सातिचारत्वादेवंभूतः संयमोऽत्र बकुशः तत्संयमयोगात् साधुरपि बकुशः, सातिचारत्वात् शुद्ध्यशुदिव्यतिकीर्णचरण इत्यर्थः, स च द्विविधः-उपकरणशरीरविषयभेदात्, तत्राकाल एव प्रक्षालितचोलपका-18 न्तरकल्पादिश्चोक्षवास:प्रियः पात्रदण्डकाद्यपि विभूषार्थ तैलमात्रया उज्ज्वलीकृत्य धारयन्नुपकरणबकुशः, तथा अनागुप्तव्यतिरेकेण हस्तपादधावनमलापनयनादि देहविभूषार्थमाचरन् शरीरबकुशः, अयं च द्विविधोऽपि आभोगाऽनाभोगसंवृताऽसंवृतसूक्ष्मबकुशभेदात् पञ्चविधो, यतः-"उवगरणसरीरसुं, बउसो दुविहो दुहावि |पंचविहो । आभोगअणाभोगे, संवुडअस्संवुडे सुहमे ॥१॥” इति, तत्राभोगः पूर्वोक्तद्विविधभूषणमकृत्यमित्येवं-1
॥१५॥ भूतं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः १, द्विविधविभूषणस्य च सहसाकारी अनाभोगबकुशः २, संवृतो
Jain Education Intel
For Private & Personel Use Only
Suvw.jainelibrary.org