________________
अतिचारालोचनेन, प्रायश्चित्तविधेयता । उपसर्गतितिक्षा च, परीषहजयस्तथा ॥ ५६ ॥ 'अतिचारा' मूलोत्तरगुणविषयाः प्रागुक्ता ज्ञानादीनां च तदाचारविपरीतभूतास्तेषां 'आलोचनं' गुरोः पुरतः प्रकाशनं 'तेन' तत्पूर्वकं 'प्रायश्चित्तानां आलोचनप्रतिक्रमणादीनां गुरुदत्तानां 'विधेयता' विधानम् , आलोचनाविधिश्च श्राद्धधर्माधिकारे उक्त एव । अत्र मूलगुणप्रतिसेवकाः पुलाकप्रतिसेवाकुशीलाः, उत्तरगुणप्रतिसेवकास्तु पुलाकप्रतिसेवनाकुशीलबकुशाः, शेषास्त्वप्रतिसेवका एव, आह च-"मूलोत्तरगुणविसया, पडिसेवासेवए पुलाए अ । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिआ॥१॥” इति, अत्र प्रसङ्गेन पुलाकादिनिर्ग्रन्थस्व-18| रूपमुच्यते-मिच्छत्तं वेअतिगं, हासाईछक्कगं च णायचं । कोहाईण चउकं, चउदस अभितरा गंथी ॥१॥ इति-18 खरूपादभ्यन्तराद्धनादेश्च बाह्याद्वन्थान्निर्गता निर्ग्रन्थाः-साधवस्ते च पञ्चविधाः, यतः-"पंच निअंठा भणिआ, पुलाय १ बउसा २ कुसील ३ निग्गंथा ४ । होइ सिणाओ अ तहा, इकिको सो भवे दुविहो ॥१॥” इति । सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्याङ्गेदोऽवगन्तव्यः, तत्र पुलाकोऽसारं धान्यं तण्डुलशून्यं पलञ्जिरूपं तेन सदृशं चारित्रं यस्य साधोः सोऽपि पुलाकः, पुलाक इव पुलाक इति व्युत्पत्तेः, अयमर्थः-तप:श्रुतहेतुकायाः संघादिप्रयोजने सवलवाहनस्य चक्रवादेरपि चूर्णनसमाया लब्धरुपजीवनेन ज्ञानाद्यतिचारासेवनेन सकलसंयमसारगलनात् पलञ्जिवनिःसारो यः स पुलाकः, स च लब्ध्या सेवया चेति
॥ इति-12
1, इक्किको वता-"पंच
Jain Education in
For Private & Personal Use Only
X
w.jainelibrary.org