Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 359
________________ Jain Education Inter रस्याभ्युद्यतमरणस्यैव वोचितत्वाद्, यदुक्तं पञ्चवस्तुके - "परिपालिऊण विहिणा, गणिमाइपयं जईणमिअमुचिअं । अब्भुज्जओ बिहारो, अहवा अन्भुज मरणं ॥ १ ॥ ति । अभ्युद्यतविहारश्च स्वातत्र्येण निरपेक्षयतिधर्मत्वेनो| परिष्टाद्वक्ष्यमाणः, अभ्युद्यतमरणं च प्रायः संलेखनापूर्वमिति प्रथमं सा वाच्या, सा च गृहस्थानामपि भवति, | परमुभयसाधारणत्वाद्यतिधर्मप्रस्तावे उपन्यस्तेति ज्ञेयं । अथ तस्या एव भेदानाह- 'सा चेत्यादि, सा च-संलेखना उत्कृष्टादिभेदेन - उत्कृष्टमध्यमजघन्यप्रकारेण 'त्रिविधा' त्रिप्रकारा 'जिनैः' केवलिभिः 'गदिता' प्रोक्ता । तत्रोत्कृष्टा द्वादशवार्षिकी, तथाहि प्रथमं चत्वारि वर्षाणि यावत् चतुर्थषष्ठाष्टमादीनि विचित्राणि तपांसि कुरुते, पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धेनाहारेण विधत्ते, ततः परमन्यानि चत्वारि वर्षाणि तथैव विचित्राणि तपांसि कुरुते, परं पारणके निर्विकृतिकं भुङ्क्ते ततः परतोऽन्ये द्वे वर्षे एकान्तरमाचामाम्लं करोति, एकान्तरं चतुर्थं कृत्वाऽऽचामाम्लेन पारयतीत्यर्थः, एवं दशवर्षानन्तरमेकादशे वर्षे आधान् षण्मासान् चतुर्थ षष्ठं वा तपः कुरुते, न चाष्टमाद्यतिविकृष्टं, पारणके चोनोदरतासंपन्नमाचामाम्लं करोति, ततः परम्परान् षण्मासान् विकृष्टं विकृष्टं तपः पारणके च मा शीघ्रमेव मरणं यासमितिकृत्वा परिपूर्णघ्राण्याऽऽचाम्लं करोति, न पुनरुनोदरतया, द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोति, उक्तं च निशीथचूर्णो- "दुवालसमं वरिसं निरंतरं हायमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडिसहिअं भवइ, जेणायंबिलस्स कोडी कोडीए मिलइत्ति” । | इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेकं कवलमाहारयति, For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398