Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 372
________________ धर्मसंग्रहे अधिकारः ३ ॥१७८॥ Jain Education In पञ्चसंख्यानां 'भावनानां तत्तत्खभावाभ्यासरूपाणां 'विवर्जनं' परिहारः, प्रक्रमादनशने, विशेषेण तत्र वर्जनीयत्वात्, तत् सापेक्षयतिधर्मो भवतीति संबन्धः । चारित्रवतोऽपि संक्लेशविशेषेण तत्तद्भावनाकरणे तादृशतादृशदेवेषु गमनात्, उक्तं च- "जो संजओवि एआसु, अप्पसत्थासु वह कहिंचि । सो तविहेसु गच्छह, | सुरेसु भइओ चरणहीणो ॥ १ ॥" अत्र 'भइओ चरणहीणोति सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा भाज्यः, कदाचित्तादृगदेवेषु कदाचिच्च नारकतिर्यक्कु मानुषेष्विति । एताश्च पंचापि भावनाः प्रत्येकं पञ्चविधाः, तत्र कान्दर्पी कन्दर्प १ कौकुच्य २ द्रुतशीलत्व ३ हास्य ४ परविस्मय ५ करणेन पञ्चविधा भवति, यतः - "कन्दप्पे कुक्कुइए, दुअसीले आवि हासणकरे अ । विम्हाविंतो अ परं, कंदष्पं भावणं कुणइ ॥ १ ॥ " त्ति 1 एषु चादृट्टहासः स्वरूपेण हासो गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः कन्दर्पकथाकथनं तदुपदेशस्तत्प्रशंसा च कन्दर्पशब्देनोच्यन्ते । कौकुच्यं - भाण्डचेष्टा, सा च कायवाक्सम्बन्धिभेदाद्विविधा, तत्राद्या भ्रूनयनादि| देहावयवविकारैः स्वयमहसता परस्य हासनं, द्वितीया तु हास्यकारवचनैरिति २, द्रुतशीलत्वं चापर्यालोच्य संभ्रमावेशात् द्रुतं द्रुतं भाषणं तथा द्रुतं द्रुतं गमनं दुतं द्रुतं कार्यकरणं, स्वभावस्थितेनापि तीव्रोद्रेकवशाद्दर्पेण स्फुटनमिवेति च ३, हास्यं च विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत् परच्छिद्रान्वेषणं चेति ४, विस्मापनं चेन्द्रजालादिकुतूहलैः प्रहेलिकाकुहेडकादिभिश्च खयमविस्मयमानेन परेषां मनोविभ्रमोत्पादन ५मिति पञ्चविधा कान्दर्पी भावना । कैल्बिषिकी च द्वादशाङ्गीरूपश्रुतज्ञान १ केवलि २ धर्माचार्य ३ सर्वसा For Private & Personal Use Only आर्यादिभाव नाः ॥१७८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398