Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 375
________________ किन्त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि भणितान्यागमे तजातिभेदेन तेन कारणेन न कश्चिद्दोषः, कन्दर्पादौ तथाविधसंयमस्थानभावादिति । तस्मादेतासां भावनानां विशेषेण त्यागोऽनशनिना कर्तव्यः, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति कृतं प्रसङ्गेन । अत्र भक्तपरिज्ञायां च विस्तरतो विधिः सामाचारीतोऽवसेयः। स चायम्-"गंधा १ संघो २चिइ ३ संति ४ सासणा ५ खित्त ६ भवण ७ सबसुरा ८॥ सक्कथय ९संतिथुत्ता १० राहणदेवी चउज्जोआ ११॥१॥ सोही १२ खामण १३ संमं १४ समइय १५ वय १६ तिन्नि मंगलालावा १७। चउसरण १८ नमो १९ अणसण २० वास २१ थुइ २२ गुसहि २३ उववूहा २४ ॥२॥” तत्र प्रथमं गुरुरुत्तमाराधनाथ वासानभिमन्त्र्य ग्लानस्य शिरसि क्षि-1 पति, ततः प्रतिमासद्भावे चतुर्विधसंघसमन्वितो गुरुग्लानेन समं अधिकृतदेवस्तुतिभिर्देवान् वन्दते, ततः शान्तिनाथकायोत्सर्गः १ शासनदेवता २क्षेत्रदेवता ३ भवनदेवता ४ समस्तवैयावृत्यकराणां ५ शक्रस्त-18 वपाठः शान्तिस्तवपाठः आराधनादेवताराधनार्थं कायोत्सर्गः 'लोगस्सुजोयगरे' चतुष्टयचिन्तनं, पारयित्वा “यस्याः सांनिध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विनवातापहाऽस्तु वः॥१॥” इति स्तुतिदानं तदनु गुरुर्निषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति, तओ "जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । तेऽहं आलोएउं, उवडिओ सव्वभावेणं ॥१॥ छउमत्थो मूढमणो, कित्तियमित्तंपि संभरइ जीवो । जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२॥ जं जं मणेण बद्धं जं जं वायाए भासिअं Jain Education in For Private & Personal Use Only Khw.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398