Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मग्र अधिकारः
३ ॥१६०॥
Jain Education Inte
दिश्रवणे खसमयप्राप्तेऽपि भावयुक्तः प्रियधर्माऽवद्यभीरुः पारिणामिकश्चाधिकारी, पारिणामिको युत्सर्गापवादौ यथाविषयविभागमौचित्येन व्यवस्थापयतीति, ईदृशं प्रति छेदादिव्याख्यानं सम्यग्बोधादिहेतुत्वेन हितं, अतिपरिणामकापरिणामको प्रति तु चित्रकर्मदोषेणाहितमेव विज्ञेयं, तयोस्तत एवानर्थ भावात्, यत्पूज्याः - 'आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इंअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥ "न्ति, न परम्परयाऽपि ताभ्यां श्रोतॄणां शुद्धपुरुषार्थलाभः, अनादेर्मिथ्याभिनिवेशस्य सुलभत्वात्, तस्मादुपसंपन्नानामुक्त गुणयुक्तानां सूत्रार्थादिक्रमेण सुनिश्चितं व्याख्यानं कार्यं, न शुकप्रलापप्रायं, उपसंपद्विधिस्तु व्याख्यातपूर्व एव, अथ व्याख्यानयितव्यं तथा यथा श्रोतुरधिगमो भवेद्, आगमिकमागमेन, युक्तिगम्यं तु युक्तया, तत्र 'खर्गेऽप्सरस उत्तराः कुरव' इत्याद्यागमिकं, देहमात्रपरिमाण आत्मेत्यादि तु यौक्तिकं, तदाहु:- "आणागेज्झो अत्थो, आणाए चैव सो कहे अधो । दिट्ठतिउ दिट्टंता, कहणविहि विराहणा इहरा ॥ १ ॥ जो हेउवायपक्खंमि हेउओ आगमे अ आगमिओ । सो ससमयपण्णवओ, सिद्धंतविराहगो अण्णो ॥ १ ॥ " ति । किंबहुना ?, निश्चयाद्यनेकनयार्थप्रधानं तथा व्याख्यानमतिसंवेगकरं कार्यं यथा मार्गदेशके भगवति सर्वज्ञे संप्रत्ययो भवति श्रोतॄणामिति । अत्रोपेत्य वितथकरणं विषादितुल्यं विपाकदारुणत्वात्, आज्ञायोगश्च मंत्रः समस्तदोषापनायकत्वात् तस्मा| देतस्मिन्नपि काले आज्ञाकरणेऽमूढलक्ष्यैः शक्त्या यतनीयं । अत्र व्याख्यानविधिः 'मज्जनिसिज्जे' त्यादिनोपसंपत्सामाचार्यामुक्त एव । एवं योग्यशिष्येभ्यो व्याख्यानं नन्द्यादिसूत्रस्य दृष्टिवादस्य तदुद्धृतस्य स्तवपरिज्ञा
For Private & Personal Use Only
गणानुयोगानु
ज्ञाधि०
॥ १६०॥
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398