Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 346
________________ धर्मसंग्रहे अधिकारः गणानुयोगानुज्ञाधि. ॥१६५॥ तद्यथा-एष आचार्यपदे स्थापनीय इत्याचार्यस्यैव वचने दोषगुणी ज्ञात्वा स्थविराणां आचार्यपदस्थापने सूत्रे भजना श्रूयते, तथा च स्थविरानुमतिरेव दिगदाने प्रधानमिति सिद्धं, अत्र चेदं सूत्रं व्यवहारचतुर्थोद्देशके"आयरिअउवज्झाए गिलायमाणे अण्णयरं वइजा-अजो! मए णं कालगयंसि समाणंसि अयं समुक्कसिअन्वे, से अ समुक्कसणारिहे समुक्कसिअन्वे, से अ णो समुक्कसणारिहे णो समुक्कसिअन्वे, अत्थि अ इत्थ केइ अण्णे समुक्कसणारिहे से समुक्कसिअन्वे, णत्थि अ इत्थ केइ समुक्कसणारिहे से चेव समुक्कसिअन्वे, तंसि च णं समुकझुसि परो वइजा 'दुस्समुक्कडे अजो! णिक्खिवाहि' तस्स णं णिक्खिवमाणस्स अणिक्खिवमाणस्स वा णत्थि केह छेए वा परिहारिए वा, जे ते साहम्मिआ अहाकप्पेणं अब्भुट्टेति तेसिं तप्पत्तिए छेए वा परिहारे वा.' अस्यार्थ: आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन्नन्यतरमुपाध्यायप्रवर्तिगणावच्छेदकभिक्षूणामन्यतमं पूर्व कुत-| |श्चिद्धेतोरसमुत्कर्षितवान्, सापेक्षः सन् वदेद् आर्य! मयि कालगते सत्ययं 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीयः, स च परीक्ष्य समुत्कर्षणा) भवति ततः समुत्कर्षयितव्यः, अथ यदि गारवेच्छाऽसमाधिमरणभीत्युत्पादननिमित्तकगणदानानुमतिकत्वभिन्नदेशीयत्त्वपरुषभाषणादिभिर्हेतुभिः प्रागनुमतोऽपि गुरोर्न समुत्कर्षयितव्य इति ज्ञातः स न समुत्कर्षयितव्यः, यश्च पूर्व समीहितः सत्यपि मधुरत्वेऽसंग्रहशीलो वाचकत्वनिष्पादकत्वोभयगुणविकलश्च सोऽपि न स्थाप्यते, यदिवाऽऽचार्याणां सर्वेऽपि शिष्या अनिर्माता इति प्रातीच्छिकस्तैरन्तसमये स्थाप्यते, मम शिष्ये निर्मापिते त्वया गणधरपदं निक्षेप्तव्यमित्यभ्युपगमकारणपूर्वकं, यो वा पवइजा दुवा .जेते साहाना ग्लायन्नन्य मयि कालगत अथ यदि गारव सापेक्षः सन् व ततः समुत्कर्षयितव्य हेतुभिः प्रागनुमतशीलो वाचकत्व ॥१६५॥ Jain Education Intl For Private & Personel Use Only totww.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398